Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 485
________________ श्रीधन्य नवमः पल्लवः चरित्रम ॥४७६॥ अवधार्यताम्, इमं शुद्धमाहारंगृहीत्वाऽनुगृह्णातु एवं भक्तिवचनपूर्वकं साधुमाहूय स्थालमुत्पाट्य एकयैव हेलया सर्वापि क्षैरेयी दत्ता । अतिपूर्णमनोरथौ सप्ताष्टपदानि साधुमनुगत्य, पुनः साधुमभिवन्द्य हर्षितहृदयौ पुनः पुनरनुमोदनां कुर्वन्तौ, गृहान्तरागत्य स्थालीसमीपे स्थित्वा स्वस्वमात्रग्रेऽप्यनवसरं विज्ञाय गाम्भीर्यगुणेन च न किमप्युक्तम् । ईदृशं दानं न केनापि दत्तम् । तथा द्वितीयं तयोस्तपोऽप्यनुत्तरम्, यतो द्वादशवर्षान्तरे गृहमागतौ द्वावपि शालिमात्रा शालिप्रियाभिर्नित्यं सेवनप्रवृत्तैश्य सेवकैरपि नोपलक्षितौ, ईदृशं दुष्करं महत्तपतप्तम् । तृतीयं, शालिना राज्ञो स्नमस्कृतिकरणमात्रेण आजन्मविलसिताम् अनिर्वचनीयां भोगलीलां व्यर्थीकृत्य चिन्तितम्-'अधुनाऽपि पारवश्यं न गतम्, पारवश्यसुखं तु दुःखरूपमेव, अत: स्वमानरक्षणाय स्वाधीनसुखाप्तये सकलसुरा-सुर-नरवृन्दैर्वन्दितं चारित्रं गृह्णामि' । एवं धन्योऽपि प्रेयस्यग्रे शालेरेकैकप्रियात्यजनं श्रुत्वा, एकैकप्रियात्यजनं कातरत्वं ब्रुवाणः, प्रियाणां नर्मगिरोऽपि आनुकूल्येन स्वीकुर्वाणो युगपदष्टौ प्रियास्तत्याज । अनर्गलसमृद्धिं च तृणवदवगणय्य चारित्रग्रहणोन्मुखो बभूव । इदमपि तयोरनुत्तरं मानम्। चतुर्थम् - अद्यापि लौकिके लोकोत्तरेऽपिच अनयोर्यशः पटहो जागर्ति । यतो यदा कोऽपि धनसम्पदादिकं लब्ध्वा प्रस्फुलति, गर्वं च वहति; तदाऽन्यः सभ्यजनो वक्ति-'त्वं किं धन्यः शालिभद्रो वा जातो येनेदृशम् अन्तर्गडु मानं वहसि ?' अद्यापियावत् सर्वेऽपिव्यापारिणो दीपालिकापर्वणि वहिकामूहूर्तकारणाऽवसरे प्रथमम् अनयोरेव नाम लिखन्ति स्मरन्ति च । ईदृशं यशोऽनयोरेवास्ति, नान्यस्य । ॥४७६॥ Jan Education International For Personal Private Use Only

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496