Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 486
________________ श्रीधन्य चरित्रम् | नवमः पल्लव: ॥४७७॥ तथा शालेर्महाश्चर्यकराणि चत्वारि जातानि | तद्यथा, प्रथमम् नरभवे स्वर्गभोगभोगित्वम्' | द्वितीयम्गृहमागतं नृपतिं सुखैकमग्नेन शालिना क्रयाणकत्वेन ज्ञात्वा पयस्थापनादेशः कृतः, ईदृशं लीलाशालित्वं कस्य भवति ? | तृतीयम् स्वर्णरत्नखचितानि अन्यत्राऽलभ्यानि वस्राभरणादीनि प्रतिदिनं सामान्यनगादिवद् | निर्माल्यत्वेन कृतानि; इदमध्याश्वर्यम्' । चतुर्थं पुन: - यस्य राजा सम्मुखं विलोक्य आगच्छ' इति वचनमात्रं मानलेशं ददाति स पुरुषो मनस्यत्युयं प्रस्फुलति - 'अहो ! अद्य ! राज्ञाऽहमत्यादरेण जल्पितः, अद्य मम शुभोदयः, मम भाग्यं स्फुरितम्' इति मनसि हर्षितो भवति । अस्य तु राज्ञा स्वयं सपरिकरेण तद्गृहमागत्य अतीवघनतरं मानं दत्तं तदनेन अपमानत्वेन चिन्तितम् ! - 'अहो ! अहमधन्यः, मया पूर्वजन्मनि पूर्णं पुण्यं न कृतं तेनाऽहम् अस्य सेवकत्वेन जातः । एतावन्ति दिनानि अहमन्तर्गडुरेव प्रस्फुलितो यदहं सर्वतः सुख्यस्मि, परम् एतन्मम सर्वसुखं वेधेन मणिरिव पारवश्यदोषेण दूषितं सर्वं विफलं संजातम् । अहो ! अयं कूटरचनामयः संसारः । अत्र यो माद्यति स मूर्खशेखरः, अतोऽहम् इह जन्मनि मृगतृष्णाप्रायान् भोगान् त्यक्त्वा स्वाधीनसुखसाधने उद्यतो भवामि' । इति विचिन्त्य समयसांसारिकभोगविलासाद् गतोत्साहो जातः । अन्यस्तु राज्ञो मानं लब्ध्वा जीवितं यावद् माद्यति, शालिस्तु मानभ्रष्ट इव विलक्षो जातः । इदमपि महाश्वर्यं ज्ञेयम् ||४|| द्वयोरपि धन्यःशालिभद्रयोर्दानधर्मस्य विश्वातिशयेऽपि एतयोर्मध्ये धन्यं विशेषतः स्तवीभि, यतोऽस्मिन् धन्येऽनुत्तराः पुण्यप्राग्भारा जगति बभूवुः । तद्यथा, प्रथमः - अस्य जन्माऽवसरे नालं छित्त्वा भूमौ निक्षेपणाय भूम्यां खन्यमानायां लक्षाधिकं निधानं प्रकटितम्, अयम् अनुत्तरः पुण्यप्राग्भारोदयः' | द्वितीयः ॥४७७॥ in Education For Personal Private Use Only row.cainelibrary.org

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496