Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 489
________________ श्रीधन्य चरित्रम् नवमः पल्लव: ॥४८०॥ सप्रत्ययो दर्शितः । सर्वेऽपि सभ्या राजा च चमत्कृताः । इदमप्युग्रपुण्याविर्भावकं ज्ञेयम् ८ | इत्यष्टौ अनुत्तरपुण्यप्राग्भारा महाश्वर्यकारिणः । तथेमानि पञ्च महाश्वर्याणि, तद्यथा-- यदा कौशाम्बीपुर्यासन्नस्थापितग्रामे स्वस्य पिता त्रयोऽग्रजाश्य मुक्ताः, राज्यं च तत्स्वाधीनं कृत्वा राजगृहगमनार्थं ससैन्यो निर्गतः, तदा मार्गे लक्ष्मीपुरनगरे राजपुत्र्या बने गत्वा स्वबुद्धिचातुर्यातिशयादागेण मृगीमाकृष्य स्वकण्ठाद् हारं निष्काश्य तस्याः कण्ठे परिधापितः । गृहे चागत्य प्रतिज्ञा कृता – 'यो नर इमां मृगी रागेणाकृष्य, तस्या कण्ठदेशाद् हारं निष्काश्य मम कण्ठे परिओधापयेत् स मम भर्ता' । इयं प्रतिज्ञा सर्वत्र विदिता जाता, परं तत्पूरणाय न कोऽपि समर्थो भवति । तदा तत्रागतेन धन्येन वने गत्वा, वीणावादनपूर्वकं रागेण वनगतं समस्तमपि हरिणयूथमाकृष्य, तद् अनेकशतहरिणपरिमितं हरिणयूथं बहुजनसङ्कुलेन चतुष्पथमार्गेण षट्त्रिंशद्राजकुलोपशोभितायाम् अनेकायुधबद्धसहस्रशः सेवकवृन्दैः सेवितायां राजसभायां समानीतम् । ये हरिणाः । अतिदूरतः पुरुषमात्रं दृष्ट्वातिदूरतः पलायन्ते तेऽतिजनसम्भृतायाः सभाया मनुष्यैर्दूरतोऽपसार्यमाणा अपि रागैकलीनचित्ता न कुत्रापि गताः । ततस्तन्मध्याऽऽगतायास्तस्या एवं हरिण्याः कण्ठदेशाद् हारं निष्काश्य कन्यायाः कण्ठे परिधापितः । तदा तत्क्षणं तया धन्यकण्ठे वरमालाऽऽरोपिता । तदनु तस्मिन्नेव पुरेऽन्यासां तिसृणां कन्यानां पाणिग्रहणं कृतम् । १. इदम् अतीवकलाकौशल्यम् ? । द्वितीयम्-अनेन बाल्येऽपि असहायकेन स्वबुद्धिकुशलत्वेन वचनादिचातुर्येण च अनेकशतकोटिपरिमितं धनमुपार्जितम्, अद्वितीयं राज्यमानं च लब्धम् | धन्योपार्जितं धनं समस्त कुटुम्बं Jain Education Interational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496