Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar,
Publisher: Raj Rajendra Prakashan Trust
View full book text
________________
श्रीधन्य चरित्रम्
पल्लव:
॥४७२॥
मूर्खशिरोमण्या किमपि न दत्तम् । साधुदानोचिताहारे विद्यमानेऽपि हा ! हा! मया न दत्तः, न च दापितः । यदि सामान्यसाधुबुद्ध्यापि आहारो दत्तोऽभविष्यत् तदापि 'अचिन्तितं स्थाने पतितम्' इति न्यायेन वरमभविष्यत्, परंतदपि न कृतम्। हा! मया किं कृतम् ?|हा ! बुद्धिः क्व गता ? हा ! साधुदर्शनवाल्लभ्यं क्व गतम् ? हा! मम अवसरोचित-सम्भाषण-सुखप्रश्नालापादिचातुर्यं क्व गतम् ?, यद् मया साधुभ्यां किमपि न पृष्टम् । 'युवां कस्य शिष्यौ ?, पुरा किं ग्रामवासिनौ भवन्तौ ?, भवतोः संयमग्रहणे कियद्वर्षाणि जातानि ?, अधुना भवतोर्माता पिता भार्या बन्धवो वा सन्ति नवा ? अधुना कुतो ग्रामादागतौ ?, युवयोर्मम पुत्रस्य शालिमुनेर्मम सुतापतेश्य धन्यमुनेः परिचयोऽस्ति नवा ?' इत्यादिकमपि न पृष्टम् । यद्येवमहं प्रश्नान् अकरिष्यं तदा सर्वं विदितमभविष्यत्। हा हा ! मम वाक्कौशल्यं क्व गतम् ? | हा ! मयापि मिथ्यात्वं कृतं यज्जडस्वान्तया गृहागतसाध्वोर्वन्दनापि न कृता, कुलोचितव्यवहारोऽपि विस्मृतः । यदा कोऽप्यङ्गणे क्षणमेव स्थितिंकरोति तदा सेवकैः सूचिते सति 'क्षणमेव स्थितिकरणे किमपि पुष्टकारणं भविष्यति' इति बुद्धिरुदेति' पृष्ट्वा च सर्वं विदितं भवति; परम् अनयोरागमने काऽपि बुद्धिर्नोदिता, किमपि नोचितं कृतं, केवलम् अनादरकरणेन हस्तप्राप्तौ सुरमणी गतितौ । हा! सर्वासां कुलवधूनां मतिकौशल्यं क्व गतं यत् स्वपतिरति नोपलक्षितः । एकस्यां वेलायां सर्वेषां मतिव्यामोहो जातः । अयाचितवाञ्छितार्थदायकौ, अनाहूतौ गृहमागतो, इह-परलोकेप्सितदायको, अतुलपुण्यैकनिबन्धनौ, बहुदिनेभ्यो बहुभिर्मनोरथैर्वाञ्छितौ स्वयं सम्मुखमागतो, नालापितौ, न वन्दितौ न प्रतिलाभितौ न चोपलक्षितौ 1 पश्याद्गतौ । मुखागतकवलगमनन्यायेन गोपालहस्तप्राप्तसुरमणित्यजनन्यायेन च सर्वेऽपि मम मनोरथा
॥४७२॥
Jan Education Interational
For Personal Private Use Only
www.
library.org

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496