Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar,
Publisher: Raj Rajendra Prakashan Trust
View full book text
________________
श्रीधन्य
चरित्रम्
नवमः पल्लवः
॥४७०॥
किं प्रयोजनम् चेद्भवतामाज्ञा भवेत् तदा भवदीयकृपया आराधनया जयपताकिकां वृणीवः" श्रीजिनेनोक्तम्'यथाऽऽत्महितं भवेत् तथा कर्तव्यं, प्रतिबन्धो न कर्तव्यः' । इति जिनाज्ञां प्राप्य, अष्टचत्वारिंशदमुनिभिर्गौतमगणधरेण च सह तौ वैभारगिरिम् आरुरुहतुः । तत्र पर्वतोपरि शुद्धं निरवद्यं पर्वतशिलापट प्रमाद्यं, आगमनमालोच्य, श्रीमद्गौतमगुरुपार्श्वे विधिपूर्वकं द्वात्रिंशता द्वारैराराधनाक्रियां कृत्वा, तौ द्वावपि मुनी मुदा पादपोपगमनमनशनमाश्रितौ | अष्टचत्वारिंशता मुनिभिः परिकर्मितौ शुभध्यानपरायणौ जीविताशामरणभयविप्रमुक्तौ समतैकलीनचितौ समाधिमग्नौ तस्थतुः ।
इतश्व भद्रा पुत्र-जामात्रागमनोत्सवे भृत्यैर्दुतं स्वस्तिक-तोरण-रत्नवल्लयादिरचनया श्रियाऽद्भुतं सौधमकारयत् । ततो भद्रया सह कृशाङ्गयश्चन्द्रकला इव शालिभद्रप्रियास्तीर्थेशं नन्तुं चेलुः । तावता सान्त: पुनः सपरिच्छदो 'भम्भासारभूपालोऽपि विमलाशयः सहर्ष श्रीवीरनमस्यायै प्राचलत् । पचाभिगमपूर्वकं भक्तिभरभारिताङ्गाः सर्वेऽपि जिनं त्रिः प्रदक्षिणीकृत्य, त्रिवारं पचाङ्गप्रणिपातेन नमस्कृत्य स्वस्वोचितस्थाने स्थिताः । ततः सर्वेऽपि जनाः पापहारिणीमाईती गिरं शुश्रुवुः । तदा भद्रा देशनां शृण्वती इतस्ततः साधुवृन्दानि पश्यति, परं तन्मध्ये धन्य-शाली अदृष्ट्वा विचिन्तयति-'गुर्वाज्ञया कुत्रापि गतौ भविष्यतः, वा कुत्रापि पठनपाठन-स्वाध्यायादिक्रिया-परायणौ भविष्यतः । यतो देशनासमये निकटस्थले स्वाध्यायादिकरणे देशनाव्याघातो भवेत् । देशनासमाप्तौ श्रीजिनमापृच्छय, यत्र स्थितौ भविष्यतस्तत्र गत्वा नस्यामि; आहारार्थं १.श्रेणिक पृथ्वीपालः।
॥४७०॥
Education International
For Personal & Private Use Only

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496