SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् नवमः पल्लवः ॥४७०॥ किं प्रयोजनम् चेद्भवतामाज्ञा भवेत् तदा भवदीयकृपया आराधनया जयपताकिकां वृणीवः" श्रीजिनेनोक्तम्'यथाऽऽत्महितं भवेत् तथा कर्तव्यं, प्रतिबन्धो न कर्तव्यः' । इति जिनाज्ञां प्राप्य, अष्टचत्वारिंशदमुनिभिर्गौतमगणधरेण च सह तौ वैभारगिरिम् आरुरुहतुः । तत्र पर्वतोपरि शुद्धं निरवद्यं पर्वतशिलापट प्रमाद्यं, आगमनमालोच्य, श्रीमद्गौतमगुरुपार्श्वे विधिपूर्वकं द्वात्रिंशता द्वारैराराधनाक्रियां कृत्वा, तौ द्वावपि मुनी मुदा पादपोपगमनमनशनमाश्रितौ | अष्टचत्वारिंशता मुनिभिः परिकर्मितौ शुभध्यानपरायणौ जीविताशामरणभयविप्रमुक्तौ समतैकलीनचितौ समाधिमग्नौ तस्थतुः । इतश्व भद्रा पुत्र-जामात्रागमनोत्सवे भृत्यैर्दुतं स्वस्तिक-तोरण-रत्नवल्लयादिरचनया श्रियाऽद्भुतं सौधमकारयत् । ततो भद्रया सह कृशाङ्गयश्चन्द्रकला इव शालिभद्रप्रियास्तीर्थेशं नन्तुं चेलुः । तावता सान्त: पुनः सपरिच्छदो 'भम्भासारभूपालोऽपि विमलाशयः सहर्ष श्रीवीरनमस्यायै प्राचलत् । पचाभिगमपूर्वकं भक्तिभरभारिताङ्गाः सर्वेऽपि जिनं त्रिः प्रदक्षिणीकृत्य, त्रिवारं पचाङ्गप्रणिपातेन नमस्कृत्य स्वस्वोचितस्थाने स्थिताः । ततः सर्वेऽपि जनाः पापहारिणीमाईती गिरं शुश्रुवुः । तदा भद्रा देशनां शृण्वती इतस्ततः साधुवृन्दानि पश्यति, परं तन्मध्ये धन्य-शाली अदृष्ट्वा विचिन्तयति-'गुर्वाज्ञया कुत्रापि गतौ भविष्यतः, वा कुत्रापि पठनपाठन-स्वाध्यायादिक्रिया-परायणौ भविष्यतः । यतो देशनासमये निकटस्थले स्वाध्यायादिकरणे देशनाव्याघातो भवेत् । देशनासमाप्तौ श्रीजिनमापृच्छय, यत्र स्थितौ भविष्यतस्तत्र गत्वा नस्यामि; आहारार्थं १.श्रेणिक पृथ्वीपालः। ॥४७०॥ Education International For Personal & Private Use Only
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy