SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् नवमः पल्लवः ॥४७१॥ च निमन्त्रयिष्ये । अथ देशनाविरामे भद्राऽर्हत: 'सदं जामातृ-सूनुभ्यां शून्यां वीक्ष्य श्रीजिनं पृच्छति स्म-'प्रभो ! | धन्य-शालिमुनी कथं न दृश्येते ?' | इति भद्रया पृष्टे श्रीवीरेणोक्तम्-'भद्रे ! अद्य मासक्षपणपारणेऽस्मदाज्ञां लात्वा त्वदीयावासाङ्गणं यावदागतौ । तत्राहारम् अलब्ध्वा त्वदावासाद् वलितौ । मार्गे शालिप्राम्भवजनन्याऽऽभीर्या धन्ययाऽतिभक्त्या दध्ना प्रतिलाभितौ स्थानमागत्य तौ यथाविधि दध्ना मासक्षपणपारणं कृतवन्तौ । ततोऽस्मदुक्तं प्राग्भवस्वरूपं श्रुत्वा वैराग्यरङ्गरक्तः शालिर्धीमता धन्येन सहास्मदाज्ञया इदानीमेव अर्धयामात् प्राग् गौतमादिमुनिभिः सह वैभारगिरौं गत्वा, यथाविधि पादपोपगमनमनशनं श्रितः' । इति श्रीवीरमुखाच्छुत्वा भद्रा शालिभद्रप्रियाः श्रेणिकाऽभयप्रमुखाश्य वज्रघातेनेव अवाच्यदुःखेन सन्तप्ता विदीर्यमाणहृदया आक्रन्दनं कुर्वन्तो वैभारं धरणीधरं प्रापुः । अथ तत्र सूर्यातपतप्तशिलातले तौ शयानौ वीक्ष्य मोहाभद्रा भूपीठे लुठन्ती मूछौं गता | शीतवाताद्युपचारेण सज्जीकृता स्नुषान्विता भद्रा दुःरवार्ता परानपि रोदयन्ती ताररुवरेण यरोद । बहुदिनकृतमनोरथाऽपूरणाद् विलापं कर्तुं लग्ना-"हा ! मया पापिन्या गतपुण्यबलया सामान्यभिक्षुकगणनायामपि इमौ न गणितौ । यतो मद्गृहात् प्रायेण न कोऽपि भिक्षुको भिक्षामप्राप्य रिक्तः पश्याद्गतोऽस्ति, परं मया मूढधिया जङ्गमकल्पद्रुमाविव गृहागतौ सुत-जामातरौ नोपलक्षितौ प्रत्यहं याचकोऽपि साधुर्भिक्षार्थं समागच्छति तस्याहं सम्मानपूर्वकमाहारं निमन्त्रयामि, तदा स साधुनिर्दूषणमाहारं गृह्णाति, धर्माशिष दत्त्वा च याति; तन्मया निर्भाग्यशेखरया १. सभां-पर्षदम्। ॥४७१॥ Jan Education International For Personal Private Use Only www.ainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy