SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् पल्लव: ॥४७२॥ मूर्खशिरोमण्या किमपि न दत्तम् । साधुदानोचिताहारे विद्यमानेऽपि हा ! हा! मया न दत्तः, न च दापितः । यदि सामान्यसाधुबुद्ध्यापि आहारो दत्तोऽभविष्यत् तदापि 'अचिन्तितं स्थाने पतितम्' इति न्यायेन वरमभविष्यत्, परंतदपि न कृतम्। हा! मया किं कृतम् ?|हा ! बुद्धिः क्व गता ? हा ! साधुदर्शनवाल्लभ्यं क्व गतम् ? हा! मम अवसरोचित-सम्भाषण-सुखप्रश्नालापादिचातुर्यं क्व गतम् ?, यद् मया साधुभ्यां किमपि न पृष्टम् । 'युवां कस्य शिष्यौ ?, पुरा किं ग्रामवासिनौ भवन्तौ ?, भवतोः संयमग्रहणे कियद्वर्षाणि जातानि ?, अधुना भवतोर्माता पिता भार्या बन्धवो वा सन्ति नवा ? अधुना कुतो ग्रामादागतौ ?, युवयोर्मम पुत्रस्य शालिमुनेर्मम सुतापतेश्य धन्यमुनेः परिचयोऽस्ति नवा ?' इत्यादिकमपि न पृष्टम् । यद्येवमहं प्रश्नान् अकरिष्यं तदा सर्वं विदितमभविष्यत्। हा हा ! मम वाक्कौशल्यं क्व गतम् ? | हा ! मयापि मिथ्यात्वं कृतं यज्जडस्वान्तया गृहागतसाध्वोर्वन्दनापि न कृता, कुलोचितव्यवहारोऽपि विस्मृतः । यदा कोऽप्यङ्गणे क्षणमेव स्थितिंकरोति तदा सेवकैः सूचिते सति 'क्षणमेव स्थितिकरणे किमपि पुष्टकारणं भविष्यति' इति बुद्धिरुदेति' पृष्ट्वा च सर्वं विदितं भवति; परम् अनयोरागमने काऽपि बुद्धिर्नोदिता, किमपि नोचितं कृतं, केवलम् अनादरकरणेन हस्तप्राप्तौ सुरमणी गतितौ । हा! सर्वासां कुलवधूनां मतिकौशल्यं क्व गतं यत् स्वपतिरति नोपलक्षितः । एकस्यां वेलायां सर्वेषां मतिव्यामोहो जातः । अयाचितवाञ्छितार्थदायकौ, अनाहूतौ गृहमागतो, इह-परलोकेप्सितदायको, अतुलपुण्यैकनिबन्धनौ, बहुदिनेभ्यो बहुभिर्मनोरथैर्वाञ्छितौ स्वयं सम्मुखमागतो, नालापितौ, न वन्दितौ न प्रतिलाभितौ न चोपलक्षितौ 1 पश्याद्गतौ । मुखागतकवलगमनन्यायेन गोपालहस्तप्राप्तसुरमणित्यजनन्यायेन च सर्वेऽपि मम मनोरथा ॥४७२॥ Jan Education Interational For Personal Private Use Only www. library.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy