Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar,
Publisher: Raj Rajendra Prakashan Trust
View full book text
________________
श्रीधन्य
नवमः पल्लव:
चरित्रम्
॥४६८॥
मार्गे एकाऽऽभीरी सम्मुखमागच्छति । सा च ईर्यासमितौ मुनी दृष्ट्वा अतीव हर्षिता परमप्रमोद प्राप्ता, हृदये हर्षोल्लासो न माति । तया भक्त्या मुनी प्रणम्य प्रीतमनसा स्वभाण्डस्थितदनः प्रतिलाभनाय विज्ञप्तिः कृतास्वामिनौ ! अस्य शुद्धदध्नो ग्रहणाय पात्रं प्रसारयतां मां च निस्तारयताम्' एवं तस्या अत्यादरं दृष्ट्वा परस्परं विचारितम्- "श्रीवीरेण 'माता पारणकारणं भविष्यति' इत्येवमुक्तम्, परम् 'अन्यत्र विहरणं न' इति तु न कथितम् । विचित्राशयगर्भिता हि जिनवाणी, आवां च च्छद्मस्थौ किं जानीवः ? | श्रीवीरचरणे पुनः प्रश्नं करिष्याव:, परम् एषाऽतिभक्त्युल्लासेन दातुमुद्यता, तस्या भावखण्डनं कथं क्रियते?। तत्र गत्वा आज्ञानुकूलं करिष्यावः" । इति संप्रधार्य पात्रं प्रसार्य दधि विहृतम् । तयापि हर्षेण दत्तं, पुनर्वन्दनां च कृत्वा गता । ततस्तौ द्वावपि स्वस्थानमागतौ । श्रीमजिनान्तिकमागत्य, समये स्वामिना यदुक्तम्-'अद्य तव माता पारणकारणं भविष्यति, तत्कथनहार्द तु मन्दबुद्धिमता मया नाऽवगतम् । आहारविहरणं तु मातृगृहे न प्राप्तम्, परं तद् आहारविहरणं आभीर्या हस्तेन कथं संजातम् ? | इति ममाऽज्ञस्य शङ्काशङ्कुर्निवार्यताम्" | अथ श्रीमत्रिजगन्नाथो दिदेश-'भोः शालिभद्रमुने ! यया त्वं दध्ना प्रतिलाभितः सा तव प्राग्जन्मजनन्यस्ति' इति श्रीमुखाच्छ्रुत्वा चमत्कृतचित्तः पृच्छति- 'कथम् ? | तदा स्वामिना प्राग्भवस्वरूपं सर्वं 'कथितम् । एषा तव पूर्वभवजननी । अस्यास्तु तदेव जन्म, तव तु द्वितीयं संजातम्' । अथ श्रीमज्जिनाख्यातं पूर्वभवस्वरूपं श्रुत्वा क्षालितकश्मल: शालि: संजातद्विगुणसंवेगः प्रभोराज्ञां लात्वा धन्येन सह पारणं व्यघात् । ततो भवविरक्तधी: १. ज्ञापितम्।
॥४६८॥
in Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496