Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 475
________________ श्रीधन्य चरित्रम् ॥ ४६६॥ Jain Education Intemational उत्तमकुलप्रसूतौ स्थः । इदं च व्रतपालनम् अतिदुष्करम्, गङ्गाप्रवाहे सम्मुखं गन्तव्यम्, असिधारोपरि चङ्क्रमितव्यम्, लोहमया यवाश्चर्वितव्याः, कुन्ताग्रेणाऽक्षिकण्डूयनं करणीयमस्तिः अतो हे जातौ ! अस्मिन्नर्थे न प्रमादो विधेयः । इति वदन्तौ अश्रूणि मुञ्चन्त्यौ एकान्तमपक्रामतः । ततस्तौ द्वावपि निजनिजमस्तके पञ्चमुष्टिलोचं स्वयं कुरुतः, तदा श्री श्रेणिकाभयादिना वेषो दत्तः । तं वेषं परिधाय, तौ श्रीवीरान्तिकमागतौ, तदा श्रीमहावीरेणेमौ द्वावपि दीक्षितौ । तथा सुभद्रादीनामष्टानां दीक्षां दत्त्वा आर्यमहत्तरिकान्तिके मुक्ताः, त च ग्रहणा - Ssसेवनादिकं शिक्षितुं लग्नाः । अथ तौ पञ्चापि महाव्रतानि शिक्षापूर्वकं लात्वा देवेन्द्र-नरेन्द्र श्लाघितौ महामुनी जातौ । श्रीमद्वीरेण सुविहितस्थविराणामन्तिके स्थापितौ । ततः श्रेणिका - ऽभयादिपर्षद् जिनं नत्वा सर्वान् साधून् वन्दित्वा द्वयोर्मुन्योः | श्लाघां कुर्वती गता । अथ तौ स्थविराणामन्तिके ग्रहणशिक्षाम् आसेवनशिक्षां चाऽप्रमत्तभावेन शिक्षमाणौ स्थविरैः सह चिरं मह्यां विजहतुः । ज्ञपरिज्ञया सम्पूर्णेकादशाङ्गीसूत्रार्थाऽध्ययनैकपरायणौ गीतार्थौ जातौ, | प्रत्याख्यानपरिज्ञया च तीव्राणि तपांसि तप्यमानौ अचिरेण मुनिपुङ्गवौ जातौ । अप्रमत्तभावेन इच्छारोधनपूर्वकम् एक-द्वि-त्रि- चतु मासक्षपणादीनि विविधानि तपांसि कुर्वाणौ इमौ मुनी द्वादशाब्दं यावत् स्थविरैः सह | विविधदेशेषु विहृत्य श्री वीरान्तिकं प्राप्तौ । श्रीवीरनाथोऽपि भूपीठं पवित्रीकुर्वन् एकदा राजगृहमागतः । देवैरष्टमहाप्रातिहार्यादिविरचनं कृतम् । तद्दिने For Personal & Private Use Only नवमः पल्लवः ॥ ४६६॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496