Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 476
________________ श्रीधन्य चरित्रम् नवमः पल्लव: ॥४६७॥ द्वयोर्मासक्षपणपारणकमस्ति, परम् 'अनुत्सेको अनुत्सुकौ भिक्षासमये भिक्षानुज्ञायै श्रीवीरान्तिकमागत्य तौ विनयेन प्रणेमतुः । तदा श्रीवीरः शालिभद्रं सादरं विलोकयन् जगाद-हे वत्स ! अद्य तव पारणकारणं जननी भाविनी' एवं श्रीवीरवचः श्रुत्वा श्रीवीरान्तिका निर्गत्य धन्य-शाली राजगृहं प्रविष्टौ । श्रीवीरवचोवशाद् अन्यस्थानं विमुच्य 'श्रीवीरवचसि कः सन्देहः ?' इति निर्धारितमनसौ भद्रावासां सप्राप्तौ । तत्र ताभ्यां गत्वा धर्माशीर्ददे, परं नोच्चैर्न च सादरम् । तौ अन्यभिक्षाचरोचितप्राङ्गणे एव तस्थुतुः, परम् एकमपि पदं पुरो नाऽस्थाताम्, अपरं च पदं नाऽख्याताम्, केवलं सर्वार्थसिद्धिदमौनम् अकृषाताम् । __ अथ भद्रा तदा चिन्तयति –'मम भाग्यान्यद्यापि अहो जाग्रति यत् सुत: सुतापतिश्याऽद्य श्रीमज्जिनेन सहागतौ । अतस्तत्र गत्वा नत्व चातिभक्त्याऽद्य निमन्त्रयिष्ये । तौ चागमिष्यतस्तदा मुदा भक्त-पानैः प्रतिलाभयिष्ये । पूर्व हि संसारावस्थायां सद् विविधरस-द्रव्यसंयोगैनिष्पन्ना विचित्ररसवत्या पोषणं कृतमभूत् तत्तु ऐहिकमनोरथसाध्यं संसारपरिभ्रमणैकफलम्, अधुना तु यद् भक्त्याऽन्नपानादिना पोषणं तद् उभयलोकसुखावहं क्रमेण मुक्तिपदप्रापकं भवति । एवं चिन्तयन्ती भद्रा हर्षाश्रुरुद्धाक्षी तदा तौ नाऽद्राक्षीत् । तपःश्रिया ईययेव परावर्तितरूप त्वात् शालिदृष्टिपथस्थित: कान्ताभिरपि नोपलक्षितः । तथापि वीरवचनसत्यापनार्थं क्षणं स्थित्वा व्रतस्थाचारपारगौ तौ प्रतस्थाते, परम् आकारस्य विकारं नैवाऽदर्शयताम् । अथ श्रीवीरवचने दृढप्रत्ययत्वात् स्थानान्तरनिराकाइक्षौशमाऽन्वितौ तौ मुनी गोचरचर्याया ववलाते। स्वोत्तारकमागच्छतोस्तयो१. निरहङ्कारौ। २. तथापि ताभ्यां अन्यभिक्षाचरोचितं प्राङ्गणे प्रतिक्षणं कृतं वीरवचनसत्यापनाय क्षणं स्थित्वा, पदं नैक पुरोऽस्थाताम्। ॥४६७॥ Jan Education n ational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496