Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar,
Publisher: Raj Rajendra Prakashan Trust
View full book text
________________
श्रीधन्य
चरित्रम्
नवमः पल्लवः
॥४७१॥
च निमन्त्रयिष्ये । अथ देशनाविरामे भद्राऽर्हत: 'सदं जामातृ-सूनुभ्यां शून्यां वीक्ष्य श्रीजिनं पृच्छति स्म-'प्रभो ! | धन्य-शालिमुनी कथं न दृश्येते ?' | इति भद्रया पृष्टे श्रीवीरेणोक्तम्-'भद्रे ! अद्य मासक्षपणपारणेऽस्मदाज्ञां लात्वा त्वदीयावासाङ्गणं यावदागतौ । तत्राहारम् अलब्ध्वा त्वदावासाद् वलितौ । मार्गे शालिप्राम्भवजनन्याऽऽभीर्या धन्ययाऽतिभक्त्या दध्ना प्रतिलाभितौ स्थानमागत्य तौ यथाविधि दध्ना मासक्षपणपारणं कृतवन्तौ । ततोऽस्मदुक्तं प्राग्भवस्वरूपं श्रुत्वा वैराग्यरङ्गरक्तः शालिर्धीमता धन्येन सहास्मदाज्ञया इदानीमेव अर्धयामात् प्राग् गौतमादिमुनिभिः सह वैभारगिरौं गत्वा, यथाविधि पादपोपगमनमनशनं श्रितः' । इति श्रीवीरमुखाच्छुत्वा भद्रा शालिभद्रप्रियाः श्रेणिकाऽभयप्रमुखाश्य वज्रघातेनेव अवाच्यदुःखेन सन्तप्ता विदीर्यमाणहृदया आक्रन्दनं कुर्वन्तो वैभारं धरणीधरं प्रापुः । अथ तत्र सूर्यातपतप्तशिलातले तौ शयानौ वीक्ष्य मोहाभद्रा भूपीठे लुठन्ती मूछौं गता | शीतवाताद्युपचारेण सज्जीकृता स्नुषान्विता भद्रा दुःरवार्ता परानपि रोदयन्ती ताररुवरेण यरोद । बहुदिनकृतमनोरथाऽपूरणाद् विलापं कर्तुं लग्ना-"हा ! मया पापिन्या गतपुण्यबलया सामान्यभिक्षुकगणनायामपि इमौ न गणितौ । यतो मद्गृहात् प्रायेण न कोऽपि भिक्षुको भिक्षामप्राप्य रिक्तः पश्याद्गतोऽस्ति, परं मया मूढधिया जङ्गमकल्पद्रुमाविव गृहागतौ सुत-जामातरौ नोपलक्षितौ प्रत्यहं याचकोऽपि साधुर्भिक्षार्थं समागच्छति तस्याहं सम्मानपूर्वकमाहारं निमन्त्रयामि, तदा स साधुनिर्दूषणमाहारं गृह्णाति, धर्माशिष दत्त्वा च याति; तन्मया निर्भाग्यशेखरया
१. सभां-पर्षदम्।
॥४७१॥
Jan Education International
For Personal Private Use Only
www.ainelibrary.org

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496