Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 478
________________ श्रीधन्य नवमः पल्लव: चरित्रम् ॥४६९॥ शालिभद्रमुनिर्भगवतः श्रीमहावीरस्य मुखोदितां भारती संस्मरन् स्वचेतसि एवं चिन्तयामास-“अहो ! अस्मिन् संसारे महाश्वर्यकारि विचित्रकर्मानुभवनम् । तद्यथा-पूर्वजन्मनि मम सदसद्विवेकरहितं ग्रामयकत्वं क्व ?, पुनरिहजन्मनि गुणगौरं गौरवमन्दिरम् अवसरोचितकरण भाषणयुक्तमिदं पौरत्वं क्व ? | तथा पूर्वजन्मनि सकलाऽऽपदां निवासः पशुदासोऽहमभूवम्, पुनरिहजन्मनि स एवाऽहं राजानमपि क्रयाणकं जानामि स्म । पूर्वजन्मनि मम जीर्णं खण्डितं शरीराच्छादनसमर्थमपि वस्त्रं दुरापमभूत्, पुनरिह जन्मनि सपादसपादलक्षमूल्या रत्नकम्बला द्विधा कृत्वा प्रियाभ्योऽर्पिताः पादौ लुञ्छयित्वा निर्माल्य कूपिकायां परिष्ठापिताः । पूर्वजन्मनि मम रूप्याद्याभूषणमात्रं नाभूत्, पुररिनह जन्मनि विविधरत्नखचितानि सुवर्णभूषणानि पुष्पस ग्वद् निर्माल्यानीतिबुद्ध्या प्रत्यहं त्यक्तानि | पूर्वजन्मनि मया रूप्यादिनाणकमात्रमपि हस्ते न स्पृष्टम्, पुरनरिह जन्मनि दीनार-रत्नादीनां पुआनां शुद्धिमपि नाऽकरवम् । अहो ! अहो ! भवनाटकस्य विचित्रत्वम्, अहो ! अस्मिन् भवनाटके कर्मराजस्य शासनात् मोहनटेन एते देहिनो विविधैर्वेषैनाट्यन्ते। अवगतजिनागमहापुरुष विना न कोऽप्युद्गरति । तस्माद् अहं कृतजगद्रोहं मोहम् उत्कटं मल्लमिव पण्डितवीर्योल्लासबलेन जित्वा द्रुतम् अप्राप्तपूर्वां जयपताकिकां गृह्णामि, यथा कृतोद्यमः सवः सफलो भवेत्" । एवं विमृश्य महासत्त्वाधिकेन धन्येन सह श्रीमन्महावीरान्तिके गत्वा नत्वा चेति विज्ञपयामास- "स्वामिन् ! अनादिशत्रोः शरीरात् तपस्यादिकार्य न निःसरति । 'जीवो जीवेन गच्छति' इत्यादि भगवतां सर्वं विदितमस्ति, 'अतोऽस्य लञ्चादानेन १.शरीरस्य। ॥४६९॥ Jan Educa For Personal & Private Use Only www.iainelibrary.org

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496