Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 473
________________ श्रीधन्य चरित्रम् ॥ ४६४ ॥ Jain Education Inter अहो ! अस्य संसारात् सहसा पराङ्मुखत्वम्, अहो ! अस्य संयमे प्रोत्साहप्रागल्भ्यम्, अहो ! अस्य | सुरलोकोपमर्द्धिविस्तरे निरभिलाषत्वम्, अहो ! अस्य प्रज्ञाकुशलत्वं निरुपमम्, धन्यमस्य जन्म, धन्यमस्य धन्येति सान्वर्थं नाम, धन्याऽस्य युवावस्थायां व्रतादानशक्तिः, धन्योऽमूषां पति-पत्नीनां संयोगः, धन्योऽस्य निर्विघ्नकृद् धर्मोदयः, धन्यमस्य कुशलानुबन्धिपुण्यप्रागलभ्यम्, धन्यमस्य लोकोत्तरं गतोपमानं भाग्यं यद् जगन्नाथ श्रीमद्वीरहस्तेन दीक्षां ग्रहीष्यति, धन्यमस्य जीवितम्, धन्योऽद्याऽस्माकं दिवसो जन्म च यद्धर्ममूर्तेर्धन्यस्य दर्शनं संजातम् । ईदृशानां नामग्रहणेऽपि पापं विफलतां याति” । इत्येवं स्तुवन्तः पौराः सहस्रशो नमस्कुर्वन्ति । इति पौरैः कृतं प्रशंसनं शृण्वानो धन्यो गुणशैलचैत्यवनं प्राप्तः । अथ पौराणां गृहमनुजानां च मुखतस्तच्छ्रुत्वा लीलाशालिः शालिः संवेगाद् व्रते औत्सुकायत । ततो मातृसमीपमागत्य युक्त्या प्रज्ञाप्यमाना जननी प्रत्युत्तरं दातुमशक्ता कृता । पूर्वं हि धन्येन वचोयुक्त्या सा तु शिथिलीकृताऽस्ति, पुनः शाले व्रतग्रहणाभिप्रायं निश्चलं ज्ञात्वा प्राह- 'वत्स ! यः स्वाशयपूरणे गृहीतहठ एकान्तेन च गृहपराङ्मुखस्तस्याहं किं वदामि ?, यद् रोचते तत् कुरु । तव त्वद्भावुकस्य चैकाशये जाते मम किं बलम् ? | युवयोश्चिन्तिताशयः पूर्यताम्' । इति प्रबुद्धाया मातुरनुज्ञां गृहीत्वा, रयात् प्रेयसीर्विहाय, विषमिश्रिताऽन्नवद् रौद्रभोगांश्च विमुच्य व्रतग्रहणोद्यमे सज्जो जातः । ततः श्रीश्रेणिकनरेन्द्रेण गोभद्रदेवेन च कृताऽपूर्वव्रतोत्सवः शालिरपि जिनान्तिकमवाप । अथ तौ द्वावपि समवसरणमवाप्य अभिगमपूर्वकं श्रीमज्जिनेश्वरं नत्वा प्राहतुः For Personal & Private Use Only नवमः पल्लवः ॥ ४६४ ॥ Minww.jainelibrary.org

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496