Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar,
Publisher: Raj Rajendra Prakashan Trust
View full book text
________________
श्रीधन्य
चरित्रम्
॥ ४६२ ॥
Jain Education In
पुत्रोऽविरतिबलेन विषयान् आसेव्य चतुर्गतिभ्रमणं करिष्यति, नरकादिषु चाऽतीवदारुणविपाकान् सहमान: क्लेशिष्यते' इति चिन्ता तु न कृता ? | माता-पुत्रयोः सम्बन्धस्तु एकभविकः, तद्विपाकास्तु अनेकभवेषु | असङ्ख्यकालं यावत् व्यथयन्ति । अस्मिन् संसारे एतावन्तं कालं परस्परं सर्वे सम्बन्धा विनिमयेनाऽनन्तशो जाता : बहुशो विषय उपभुक्ता:, ताश्व दृष्ट्वा स च त्वं च परमहर्षं प्राप्तौ; परं तद्विपाकावसरे त्वमेनं समुद्धर्तुं न | शक्ताऽभवः, अयं च त्वां समुद्धर्तुं न शक्तोऽभवत्, अस्मिन् जगति अतिवल्लभपुत्रोऽप्ययं त्वया स्वहस्तेनाऽनन्तशो मारितः, अनेन च त्वमपि; अत: किं स्नेहेन विद्यसे ? । एतादृशो दुःखदायकः स्नेहसम्बन्धस्तु अनन्तशो जातः, | परम् ईदृशो जिनचरणाऽरविन्दसनाथचारित्रग्रहणनिमित्तं तवादेशमार्गणसंयोगस्तु न कदापि संजात: ; स | चाऽधुना युवयोर्भाग्येन संयोगो मिलितः, तं किं न सफलयसि ? । एवं च कथं न विचिन्तयसि यत्- 'मया जातः पुत्रोऽर्हत्पर्षदि सुरासुर-नरेन्द्रगणेषु पश्यत्सु पञ्चसाक्षिकं चारित्रं गृह्णाति । नाऽहं १ द्रम्मकवत् सम्मुखागतं राज्यं त्यजामि, परं मम पुत्रः परमाऽभयदातृश्रीवीरस्य स्वहस्तदीक्षितः शिष्यो भवति' । अस्य का भीति : ?, | संसारसागरं हेलया तरिष्यति, अत्र किम् अशुभं भवति यत्त्वं दुःखार्ता विद्यसे ? | श्रीमज्जिनधर्मविज्ञा भूत्वा | ईदृग् अशुद्धवचनं तव मुखात् कथं निर्गच्छति ? | विवाहादिमहास्तु अनन्तशः कृतास्तथापि तेषां तृप्तिर्न प्राप्ता, परम् अस्मिन् भवे युवयोः परमसुखैकहेतुं चारित्रोत्सवं किं न करोषि ? | संसारे हि ये सम्बन्धा धर्माराधने सहाय्यकृतो जातास्ते तु सफलाः, अन्ये तु विडम्बनारूपा ज्ञेयाः । अतो गृहं गत्वा चित्तप्रसत्त्या पुत्रस्य मनोरथपूरणं कुरु, यथा तवापि प्रतनुः संसारो भवेत् । मया तु चारित्रग्रहणं निर्धारितं, तद् जगत्स्थितिविनिमयेऽपि नान्यथा
For Personal & Private Use Only
नवमः पल्लव:
॥ ४६२ ॥
www.jainelibrary.org

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496