Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar,
Publisher: Raj Rajendra Prakashan Trust
View full book text
________________
श्रीधन्य
चरित्रम्
॥ ४६१ ॥
अखण्डशः स्थापनार्थं शासनोन्नत्यर्थं दत्तम्, कियच्च याचकेभ्यो दत्तम् कियद्धनम् उचितज्ञातीयवर्गपोषणार्थं | व्ययितम् । कियद्धनं राजोपायनादिषु अवसरोचितव्ययप्रवृत्तिदर्शनार्थं प्रमादिजनजागृतिकरणार्थं च व्ययितम् । एवं बहु धनं धर्म-कर्म - पुण्यकर्मोचितकर्म-यशः कर्मसु व्ययितम्, तथाप्युद्गरितम् : तच्च यथायोग्यं विच्छ धन्यो निश्चिन्तो बभूव ।
अथ सुभद्रयाऽपि स्वाशयो मातुरग्रे ज्ञापितः । तदा मात्रोक्तम्- 'पुत्रि ! अधुनैव तु पुत्रवियोगवार्तया | ज्वलितान्तः करणाऽस्मि, पुनस्त्वमपि व्रतग्रहणायोद्यता जाता ?, एतद्दुःखं क्षते क्षारतुल्यं किं ददासि ? | युवयोर्गतयोर्मम किमालम्बनम् ?, क सहायक: ? क आधारः ? ; सहसा तवाऽपि किं जातम् ? । पुत्र्या निवेदितम्'मातः ! अस्माभिरष्टाभिर्भगिनीभिर्निर्धारितम्-संयमोऽवश्यं ग्रहीतव्यः, एतज्जगत्स्थितिविनिमयेऽपि इमां प्रतिज्ञां नैव मुञ्चामः । योऽस्मान् संयमग्रहणाद् वारयेत् सोऽस्माकं शत्रुरेव ज्ञेयः । कदाप्यसमत्स्वामी विलम्बयेत् तथापि वयं न चिरयामः । संयमैकतानो भ्राताऽपि न वारणीयः । इत्युक्त्वा स्वगृहमागता । भद्रा तु स्नेहग्रथिला यत्र धन्यस्तत्रागत्य प्राह- भो भद्र! पुत्रस्तु दुःखदानाय सज्जो भवति तावता त्वमप्यग्रतो दग्धायां परिस्फोटकतुल्यो गृहं त्यक्तं प्रगुणो जातः परं मदीया चिन्ता न केनापि कृता किं करिष्यतीयं वृद्धा ?, कस्याश्रये स्थास्यति ?, निर्दोषा निरपराधा इमा द्वात्रिंशत्सुकुलप्रसूता नारीः कः परिपालयिष्यति ?, । इति सगद्गदं श्वश्रुवचः श्रुत्वा धन्यः प्राह - " अस्मिन् जगति कः कं परिपालयति ? सर्वान् स्वकृतं पुण्यं परिपालयति, अन्येषां परिपालनं तु औपचारिकम् सर्वे संसारिणो हि स्वार्थेन स्निह्यन्ति परं परमार्थाऽपेक्षक एक: साधुरेव, तं विना न कोऽप्यस्ति । यच्च भवती स्वार्थपूरणाय पुत्रस्य व्रतग्रहणे अन्तरायं कर्तुमना अस्ति, परं 'मे
,
For Personal & Private Use Only
Jain Educationa
नवमः पल्लवः
॥ ४६१ ॥
www.jainelibrary.org

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496