Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 468
________________ नवमः पल्लव: चरित्रम् परं वीरसंहरणे रणे सम्मुखीभावेन दृढहृदयाः कर्तव्यैकसाध्यास्ते स्वल्पा एव | लौकिकव्यवहारेष्वपि श्रीधन्य दुष्करकार्यवार्ताकथनवेलायां बहवो दृश्यन्ते, परं तत्करणाऽवसरे एकः कोऽपि न तिष्ठति । तथाऽत्रापि दीक्षाशिक्षादानाय को मानवो न प्रगल्भेत ?, परं हे स्वामिन् ! वहिपानमिव दीक्षाऽऽदानं तु दुष्करमेवाऽस्ति । शालेर्मात्रा शालिरेवैको जनितोऽस्ति य ईदृग्दुष्करखतग्रहणोद्यतो जातः। यदि चेत् तद्वतं भवता हृदि सुकरं 3. प्रतिभाति तदा भोगान् रोगानिव त्यक्त्वा स्वयं तत् किं न सेव्यते ?"| __ इति प्रेयसीनां श्रेयसीगिरो निशम्य धन्यः सोत्साहं जगौ-धन्या यूयम्, याभिः स्वोत्तमकुलप्रसूतत्वम् ॥४५९॥ ईगवसरोचितशुभवाक्यान्युक्त्वा प्रकटितम् । कुलवतीविना का अन्या वक्तुं प्रभवेयुः। अहमपि धन्यः, अद्य मे नाम यथार्थं संजातम् । सम्प्रति मे 'भाग्यान्यजागरुः । अहं शालितोऽपि भाग्याधिकः, यतोऽन्तरायकृत्प्रेयसीवृन्दमपि ईदृक्छि क्षावचोद्वारेण साहाय्यकृत् संजातम् । अहं भवतीनां शुभां गिरमुपश्रुतिमिवादाय व्रतं प्रपद्ये, अतो भोः कान्ताः ! यूयमपि शान्ताशया भवत' । सर्वासां पत्नीनामित्युदीर्य, योगीश्वराणामपि आश्वर्यं यच्छन् असौ सुधीर्धन्यः पत्नीरपि व्रताऽऽदानसावधाना व्यधात्।। अथ धन्यस्य श्री विस्तराऽनुक्रमो यथा-ऋद्धि-समृद्धिभृतानां ग्रामाणां पञ्चदशशतानि रथानां पञ्चशतानि | अश्वानां पञ्चशतानि, गृहाणां धवलमन्दिराणां पञ्चशतानि, हट्टानां पञ्चशतानि स्वबुद्भया क्रय-विक्रयादिसमस्त, व्यापारक्रियाकरणकुशलानां वणिकपुत्राणां पञ्चसहस्राणि, समुद्रव्यापारकरणाधिकरणपोतानां पञ्चशतानि ॥४५९॥ १.भाग्यानि मेऽद्य जागर्तीति यतो। JainEducation For Personal & Private Use Only

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496