Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 467
________________ श्रीधन्य चरित्रम् नवमः पल्लवः ॥ ४५८॥ सर्वज्ञकल्पाश्चतुर्दशपूर्वधारिणोऽपि पतिताः श्रूयन्ते, तदाऽन्येषां का वार्ता ? | इह जगति दुःखिताः सांसारिका | आजीविकादिदुःखसन्तप्ताः 'मोक्षसुखैककारणं तपः-संयमौ एव' इत्येवं कथञ्चिद् जानाना अपि कियन्तश्यारित्रं गृह्णन्ति ? परम् अयं तु नरजन्मनि दैवतभोगविलासी, यानि च रत्नखचितस्वर्णाभरणादीनि | चक्रवर्तिगृहे त्रैलाक्याऽधिपतिश्रीमदर्हतां गृहेऽपि च उषितपुष्पनगादिवद् निर्माल्यतां न जातानि तानि अस्य गृहे नित्यं निर्माल्यतयाऽवगणय्य प्रोज्ड्यन्ते, पुनस्तेषां न कोऽपि शुद्धिं लाति; तानि सुवर्ण-रत्न-देवदूष्याणि च श्लेष्मादिवद् जुगुप्सनीयतया गण्यन्ते। उद्यमवतांजगति परिभ्रमणं कुर्वतारत्नवणिजांदृष्टिपथे यदएकमपि रत्नं नागतं तादृशरत्नानां समूहोऽस्य पादाये लोठति, तादृशै रत्नैरस्य गृहस्य भूमितलं निबद्धम् । यस्य तिरस्कृत-मेनका-रम्भा-तिलोत्तमारूपसौन्दर्या द्वात्रिंशद् रमण्यः, या हि कृमिरागवत्परिरागरक्ताः, पतिवचनानुकूल्येनैव प्रवर्तिकाः, चतुःषष्टिमहिलाकलाढ्याः, प्रतिक्षणं पतिचरणोपासनाशीला:, यासां हावभावविलासैर्देवा अपि स्निह्यन्ति, यासामङ्गेषु दोषलेशोऽपि न, स्मरेण शक्तिसर्वस्वं विभज्य प्रत्यक्षा द्वात्रिंशद् मूर्तयो निर्मिता: किमु ?, ईदृशीनां स्त्रीणां मध्यात् प्रत्यहमकौकां त्यजति । दृश्यतां भवादृशानां निपुणानां ज्ञानम्, तस्याहो कातरत्वेनादिशन्ति भवादृशा अपि निपुणाः ? परं भवन्तः किं कुर्यु: ?, अनादिमोहावृतजीवानाम् इयमेव प्रकृतिर्यद् अनाहूता अपि बलाद् विमुह्य परस्यानेकान् गुणान् विमुच्य असन्तमपि दोषुमुद्भाव्य वावदूका भवन्ति । इह जगति गृहशूराः क्लीबा जीवाः सहस्रशः स्युः । यतः "परोपदेशकुशला दृश्यन्ते बहवो जनाः। स्वयं करणकाले तैश्छलं कत्वा प्रणश्यते" ||१|| ॥४५८॥ Jain Education Interational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496