Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 465
________________ श्रीधन्य चरित्रम् नवमः पल्लवः ॥४५६॥ चिन्ताशोकसइकुलचित्ता न रतिं लभते । अथ चतुर्थे दिने साऽप्याज्ञां दत्त्वा विसर्जिता । एतद्वार्ता भद्रया ज्ञात्वा, शालेरन्तिकमागत्य, विविधस्नेहगर्भिताभिर्वाचोयुक्तिभिः परमदीनवचनैश्य प्रज्ञाप्यमानोपि व्रताशयाद् न | व्यरंसीत् । एवमन्वहम् एकैकां स्मरस्य नगरीमिव त्यजति, मोहनीयोत्पत्तिकारणं च ज्ञात्वा तत्स्पर्शमात्रमपि |' रागं न दधाति। __ इतश्य शालिभद्रस्वसा सुभद्रा स्वभर्तुर्धन्यस्य मूर्द्धानं सुगन्धिजलेन प्रक्षाल्य, ततोऽतिसुगन्धि तैलादिप्रक्षेपपूर्वकं कङ्कतिकया वेणी ग्रथ्नाति, अन्या अपि यथास्थानं स्थिताः सन्ति; तदा तस्याः सुभद्राया दृग्भ्यां भ्रातृवियोगदुःखस्मरणात् चित्तस्वस्थताशून्याः कवोष्णा अश्रुबिन्दवो धन्यस्य स्कन्धद्वये पेतुः । तदा धन्येन कवोष्णाऽश्रुबिन्दुस्पर्शनाद् ऊर्ध्वतिर्यग्दृग्भ्यां प्रियामुखं निभाल्योक्तम् -'प्रिये ! किमिदमश्रुपातकारणम् ? | केन तवाऽऽज्ञाखण्डनं कृतम् ?, अथवा केन तव मर्मवचनमुद्घाटितम् ?, वा केन नीचामन्त्रणं जल्पितम् ?| पूर्वकृतपुण्यप्रभावजन्ये सकलसुखसभ्भृते मदीयभवने तवैव दुःखस्योदयः कथं प्रादुरभूत् , यत् तव अकाण्डे एव उत्पातजलदाऽम्बुकणा इव बाष्पविपुषः पेतुः ?'। तदा सा सगद्गदं प्राह'स्वामिन् ! भवदीयभवने मम दुःखलेशोऽपि नास्ति किन्तु मदीयः सोदरः शालिकुमारो राज्ञो गृहागमनदिवसाद् उदासीनो जातः । वीरवचनश्रवणात्तु परमवैराग्यवासितान्तः करणो व्रतं जिघृक्षुः प्रत्यहमेकैक-प्रियां त्यजति । मासमात्रेण स सर्वास्त्यक्ष्यति, व्रतं च ग्रहीष्यति, तदा च मम पितृगृहं भ्रातृशून्यम् अरण्यमिवोद्वेगकारणं भविष्यति। भ्रातरि गते प्रतिवर्षं रक्षाबन्धनं कस्य करिष्यामि ?, को मम प्रसत्तिं पूरयिष्यति ?, को मां पर्वणि ॥४५६ Join Education in For Personal & Private Use Only dww.jainelibrary.org

Loading...

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496