Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 469
________________ श्रीधन्य चरित्रम् नवमः पल्लव: ॥४६॥ अत्युदद्भुत, राजमन्दिरविजेतृणि देवभवनभमदायकानि सप्तभूमगृहाण्यष्टौ, प्रेयस्योऽष्टौ, प्रत्येकप्रेयसीनिश्रया एकै कं गोकुलमिति गोकुलान्यष्टौ, तथा निधिषु व्यापारक्रि यासु वृद्धिषु वस्रा-55भरणभाजनादिसमस्तगृहगताऽधिकरणेषु च प्रत्येकं षट्पञ्चाशत् षट्पञ्चाशत् स्वर्णकोटयः प्रतिष्ठिताः, अष्टानां पत्नीनां प्रत्येकं स्वस्वनिश्रया एकैककोटिः सुवर्णम्, एवं पत्नीसत्का अष्टौ हाटककोटयः, तथा धान्यानां कोष्ठागाराणि शतसहस्रशः, तेषां च अनेकेषु ग्रामेषु--दीनहीन-दुःखितजनोद्धरणाय सत्रागाराणि प्रवर्तन्ते, तथा मनश्चिन्तितानां भोगसम्भोगादीनामिन्द्रियसुखानां यशःकीर्त्यादीनां चैहिकसर्वकामितसुखानां दातृस्व भावश्चिन्तामणिर्मणिर्विद्यते । एवमन्यान्यपि अनाणि विविधगुण-स्वभावानि रत्नौषधिप्रमुखाणि वस्तूनि कोटिशः सन्ति । तथाऽनेकदेशान्तरागतानि राजादीनामपि दुर्लभतराणि मणि-रसायनादीनि गणनारहितानि सन्ति। प्रतिदिनं प्रतिमासं प्रत्यब्दं सार्थवाह-महेभ्य-सामन्त-नरेन्द्रादयः प्रीत्या स्वदेश-परदेशतः संगृह्य यानि गवंषणयाऽपि न प्राप्यन्ते तानि वस्तूनि सहर्ष धन्याय प्रयच्छन्ति । तथा स्वजन--मित्रादिसम्पदोऽपि तादृशीरेव सन्ति । अत्युत्कृष्टपुण्योदयलक्षणं ह्येतत्। . एतादृशं महर्द्धिविस्तरं सत्त्वाधिको धन्यस्तृणवद् अवगणय्य व्रतग्रहणायोद्यतो जातः, यतः सत्त्वाधिका हि उत्तमार्थसाधनाय न चिरयन्ति । ततो रत्नत्रयार्थसाधने विघ्नध्वंसनार्थं सर्वतीर्थेषु अष्टाह्निकमहं प्रावर्तयत् । प्रभूतं धनं सप्तक्षेत्रेषूप्तम् । कियद्धनं दीन-हीनोद्धरणपुण्यकर्मणि, कियद्धनं स्वजनादिषु उदारभावेन दत्तम् । कियद्धनं नित्यसेवाकारिणाम् आजीवितजीवनाहँ दत्तम्, यथा कस्मयापि सेवाकरणं न भवेत् । कियद्धनम् ॥४६०॥ Jain Education For Personal & Private Use Only w ww.jainelibrary.org

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496