Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 464
________________ श्रीधन्य चरित्रम् ॥ ४५५॥ 'अमुना सुपुत्रेण मद्वचनमङ्गीकृतं न तु लोपितम् '। अथ जिनवाण्या परिकर्मितमतिना शालिना संसारस्वरूपचिन्तनपरेण शेषोऽहोरात्रो निर्वाहितः । द्वितीयदिनप्रभाते संजाते प्रथमस्त्रियं प्रत्याज्ञा दत्ता - ' त्वम् अतः परम् अधोभूम्यां स्थितिं कुरुष्व, विनाऽऽज्ञाम नागन्तव्यम् । इति श्रुत्वा 'कुलजानां पतिवचनं नोल्लङ्घनीयम्' इति हेतोः सा सविषादम् अधोभूम्यां गत्वा स्थिता । चिन्तयति च - ' हा ! मम स्वामिना किं कृतम् ? | 'निरागा अहं केन हेतुना त्यक्ता ? । किं मां प्रथमं त्यक्तुं प्रथमं पाणिग्रहणं कृतम् ? । लज्जा- विनयावृताऽहं न किमपि प्रश्नयितुं शक्ता, किमधुना भविष्यति ?, दिन-रात्रिनिर्वाहः कथं भविष्यति ? | सर्वतोऽग्रगाऽहं भर्त्रा क्षणेन गणनाबहिष्कृता, अतोऽनुमनेन ज्ञायतेक्रमेण सर्वासामपि इयमेव गतिर्भाविनी । चेत् कदापि अन्यासां त्यजनं न भविष्यति तदा तु ममैव दुष्कर्मोदयः, अहमेव सर्वासां दुर्भाग्याणामग्रे सरी' I इत्येवं विकल्पकल्पनाक ल्लो लक ष्टपतितया मुखनिःश्वासमलिनदर्पणेनेव विच्छायवदनया महता कष्टेन दिनरात्रिनिर्वाहः कृतः । तृतीयदिने प्रभा पुनर्द्वितीयस्या आज्ञा दत्ता - ' त्वमपि अद्यदिनात् त्यक्ता अतो वृद्धायाः समीपं गत्वा स्थितिं कुरुष्व' । ततः | साऽपि विच्छायवदना सती तस्याः समीपं गता । साऽपि तामागच्छन्तीं दृष्ट्वा, ईषद्विहस्य, उत्थाय, सम्मुखं गत्वा, हस्ततालिं दत्त्वा वक्तुं लग्ना-" सरिव ! आगम्यताम् आगम्यताम् !, त्वमपि मद्गतिं प्राप्ता दृश्यसे । माऽतिचिन्त | कुरु, सर्वासामपि इयमेव गतिर्भाविनी दृश्यते, तदावयोश्चिन्ता निरर्थका, 'न दुःखं पञ्चभिः' इति श्रुतेः " | ततस्तृतीयाऽपि ध्यातुं लग्ना-कल्ये मदीयाऽपीयमेव गतिः' ततः सा यथा यथा दिनकर ऊर्ध्वं चटति तथा तथा १. निरपराधा । २. प्रथम पत्न्या । Jain Education International For Personal & Private Use Only नवमः पल्लवः ॥॥ ४५५॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496