________________
श्रीधन्य
चरित्रम्
॥ ४५५॥
'अमुना सुपुत्रेण मद्वचनमङ्गीकृतं न तु लोपितम् '।
अथ जिनवाण्या परिकर्मितमतिना शालिना संसारस्वरूपचिन्तनपरेण शेषोऽहोरात्रो निर्वाहितः । द्वितीयदिनप्रभाते संजाते प्रथमस्त्रियं प्रत्याज्ञा दत्ता - ' त्वम् अतः परम् अधोभूम्यां स्थितिं कुरुष्व, विनाऽऽज्ञाम नागन्तव्यम् । इति श्रुत्वा 'कुलजानां पतिवचनं नोल्लङ्घनीयम्' इति हेतोः सा सविषादम् अधोभूम्यां गत्वा स्थिता । चिन्तयति च - ' हा ! मम स्वामिना किं कृतम् ? | 'निरागा अहं केन हेतुना त्यक्ता ? । किं मां प्रथमं त्यक्तुं प्रथमं पाणिग्रहणं कृतम् ? । लज्जा- विनयावृताऽहं न किमपि प्रश्नयितुं शक्ता, किमधुना भविष्यति ?, दिन-रात्रिनिर्वाहः कथं भविष्यति ? | सर्वतोऽग्रगाऽहं भर्त्रा क्षणेन गणनाबहिष्कृता, अतोऽनुमनेन ज्ञायतेक्रमेण सर्वासामपि इयमेव गतिर्भाविनी । चेत् कदापि अन्यासां त्यजनं न भविष्यति तदा तु ममैव दुष्कर्मोदयः, अहमेव सर्वासां दुर्भाग्याणामग्रे सरी' I इत्येवं विकल्पकल्पनाक ल्लो लक ष्टपतितया मुखनिःश्वासमलिनदर्पणेनेव विच्छायवदनया महता कष्टेन दिनरात्रिनिर्वाहः कृतः । तृतीयदिने प्रभा पुनर्द्वितीयस्या आज्ञा दत्ता - ' त्वमपि अद्यदिनात् त्यक्ता अतो वृद्धायाः समीपं गत्वा स्थितिं कुरुष्व' । ततः | साऽपि विच्छायवदना सती तस्याः समीपं गता । साऽपि तामागच्छन्तीं दृष्ट्वा, ईषद्विहस्य, उत्थाय, सम्मुखं गत्वा, हस्ततालिं दत्त्वा वक्तुं लग्ना-" सरिव ! आगम्यताम् आगम्यताम् !, त्वमपि मद्गतिं प्राप्ता दृश्यसे । माऽतिचिन्त | कुरु, सर्वासामपि इयमेव गतिर्भाविनी दृश्यते, तदावयोश्चिन्ता निरर्थका, 'न दुःखं पञ्चभिः' इति श्रुतेः " | ततस्तृतीयाऽपि ध्यातुं लग्ना-कल्ये मदीयाऽपीयमेव गतिः' ततः सा यथा यथा दिनकर ऊर्ध्वं चटति तथा तथा १. निरपराधा । २. प्रथम पत्न्या ।
Jain Education International
For Personal & Private Use Only
नवमः पल्लवः
॥॥ ४५५॥
www.jainelibrary.org