SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ ४५४ ॥ | निर्जित्य जन्म-जरा-मरण-रोग-शोकादिसमग्रदुःखै रहितं परमानन्दपदं साद्यनन्तस्थित्या प्राप्यते; अपुनरावृत्त्या च अकृत्रिमं निरुपाधिकम् अप्रयासं शाश्वतम् अनन्तसुखमनुभूयते' । अतो मातः ! अहमपि | परमोपकारिवीरवचनाद् ज्ञातहार्दो तथा करिष्ये" । मात प्राह-- 'वत्स ! चारित्रमतिदुष्करम्, वनगहनगिरगह्वरादिषु निवसनं, तत्र तव कः सारं करिषउयति ? । गृहे तु प्रतिक्षणं सावधानताः सेवकादयो यथानुकूलं कुर्वन्ति, चारित्रे तु न कोऽप्यस्ति, प्रत्युत संयम - श्रुत-तपो वयोवृद्धादीनां सेवाकरणमापतति' । शालिः प्राहमातः ! वने मृगादिसुकोमलपशूनां कः सारं करोति ?, ततोऽप्यहं तु पुण्यवानस्मि, यतः परमकरुणाभृदाचार्यो|पाध्याय स्थविर - गणावच्छेदक- रत्नाधिकादीनां सहायेन मम किं दुःखम् ? अतः शतवार्तानामेकां वार्तां वच्मि| मयाऽवश्यं चारित्रं तु ग्राह्यमेव, नाऽत्र सन्देहः कश्चित्' । एतच्छ्रुत्वा मात्रा ज्ञातम् --' अनेन वचनेनाऽयं निश्चयेन गृहं त्यक्ष्यति, अतोऽत्र कालविलम्बोऽनुसर्तव्यः, । इति ध्यात्वा शालिं प्रत्याह--'वत्स ! यदि तव चारित्रमवश्यं ग्रहीतव्यमस्ति तदा त्वं साहसं मा कुरु, दश दिवसान् प्रतीक्षस्व । किञ्चित् किञ्चच्च त्यागं कुरुष्व यथा स्वशक्तिपरीक्षा ज्ञायेत । पश्चाद् धर्मे 'सद्यो मनः कुरु, यथाऽखण्डो निर्वहेत् । इति मातृवचः श्रुत्वा | शालिभद्रश्चिन्तयति--"स्नेहग्रथिला माता सहसाऽऽज्ञां नार्पयति, मातुश्चाऽनुज्ञां विना न कोऽपि चारित्रं ददाति । अतो यद् माता वदति-- दश दिवसान् चारित्रतुलनां कुरु' इति मातृवचनाऽङ्गीकरणे माताऽपि प्रसत्तिपात्रं भविष्यति । मया तु यन्मनसि निर्धारितं तन्न चलत्येव, अतो मातृवचनाऽनुकरणं युक्तमेव, चिन्तितम् अवसरे करिष्याम्येव" । इति विचिन्त्य मातरं नत्वा सौधोपरि वासगृहं प्रति चटितः । माताऽपि मुदिता जाता यदू9. सद्यो मनः कृत्त्वा स्वसमीहितं करोतु । Jain Education International For Personal & Private Use Only नवमः पल्लवः | ॥ ४५४ ॥ jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy