________________
नवमः पल्लव:
चरित्रम्
परं वीरसंहरणे रणे सम्मुखीभावेन दृढहृदयाः कर्तव्यैकसाध्यास्ते स्वल्पा एव | लौकिकव्यवहारेष्वपि श्रीधन्य
दुष्करकार्यवार्ताकथनवेलायां बहवो दृश्यन्ते, परं तत्करणाऽवसरे एकः कोऽपि न तिष्ठति । तथाऽत्रापि दीक्षाशिक्षादानाय को मानवो न प्रगल्भेत ?, परं हे स्वामिन् ! वहिपानमिव दीक्षाऽऽदानं तु दुष्करमेवाऽस्ति ।
शालेर्मात्रा शालिरेवैको जनितोऽस्ति य ईदृग्दुष्करखतग्रहणोद्यतो जातः। यदि चेत् तद्वतं भवता हृदि सुकरं 3. प्रतिभाति तदा भोगान् रोगानिव त्यक्त्वा स्वयं तत् किं न सेव्यते ?"|
__ इति प्रेयसीनां श्रेयसीगिरो निशम्य धन्यः सोत्साहं जगौ-धन्या यूयम्, याभिः स्वोत्तमकुलप्रसूतत्वम् ॥४५९॥
ईगवसरोचितशुभवाक्यान्युक्त्वा प्रकटितम् । कुलवतीविना का अन्या वक्तुं प्रभवेयुः। अहमपि धन्यः, अद्य मे नाम यथार्थं संजातम् । सम्प्रति मे 'भाग्यान्यजागरुः । अहं शालितोऽपि भाग्याधिकः, यतोऽन्तरायकृत्प्रेयसीवृन्दमपि ईदृक्छि क्षावचोद्वारेण साहाय्यकृत् संजातम् । अहं भवतीनां शुभां गिरमुपश्रुतिमिवादाय व्रतं प्रपद्ये, अतो भोः कान्ताः ! यूयमपि शान्ताशया भवत' । सर्वासां पत्नीनामित्युदीर्य, योगीश्वराणामपि आश्वर्यं यच्छन् असौ सुधीर्धन्यः पत्नीरपि व्रताऽऽदानसावधाना व्यधात्।।
अथ धन्यस्य श्री विस्तराऽनुक्रमो यथा-ऋद्धि-समृद्धिभृतानां ग्रामाणां पञ्चदशशतानि रथानां पञ्चशतानि | अश्वानां पञ्चशतानि, गृहाणां धवलमन्दिराणां पञ्चशतानि, हट्टानां पञ्चशतानि स्वबुद्भया क्रय-विक्रयादिसमस्त, व्यापारक्रियाकरणकुशलानां वणिकपुत्राणां पञ्चसहस्राणि, समुद्रव्यापारकरणाधिकरणपोतानां पञ्चशतानि
॥४५९॥
१.भाग्यानि मेऽद्य जागर्तीति यतो।
JainEducation
For Personal & Private Use Only