Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 460
________________ श्रीधन्य चरित्रम नवमः पल्लव: ॥४५१॥ मया धर्मदेशना श्रुता, स देशना मह्यं रुचिता'। माता प्राह-'धन्योऽसि त्वं, कृतपुण्योऽसि पुत्र ! त्वम् । भव्यं कृतं त्वया यत् त्वं श्रीमज्जगन्नाथवन्दनार्थं गतः। तदा शालिभद्रः प्राह-मातः! तां देशनां श्रुत्वाऽनादिभवभ्रान्तिर्गता, चतुर्गतिकसंसारसंसरणप्रवृत्तिः सहेतुका मया ज्ञाता, परमाऽनर्थदायिनो विषया मया स्पष्टतयाऽवगताः, जन्मजरा-मरण-रोग-शोकादिभृतोऽयं संसार: सम्यग्रीत्योपलक्षितः; अतोऽधुनाऽत्र संसारे रतिभावो मम नास्ति, आपातरम्याः कामभोगा अनन्तकालं यावद् दुःखहेतवोऽधुना मां न रोचन्ते । अस्मिन् संसारे जरा मरणादिदुःखकाले न कोऽपि शरणं ददाति । दुष्कर्मविपाकाऽनुभवसमये एकाक्येव रटन् जीवो यथोदयगतिं गच्छति, कोटिसङ्ख्यया च स्वजन-सेवकवर्गेषु सत्स्वपि एकाक्येव जीवो याति आगच्छति च; तत्र शुभाऽशुभकर्मप्रकृतिं विहाय नान्यः कोऽपि सह याति । यावद् जन्म-मरणादिभयं न गतं तावद् जीवस्य सुखं नास्ति । मधुलिप्तखङ्गधारालेहनतुल्या अमी विषया मुखे मिष्टाः परिणामे १ दुष्टाः, ते च शूलि-दुर्जन-चौरा इवाऽवश्यं दुःखं ददत्येव अतोऽहं चेत् तवाज्ञा भवेत् तदा जन्मादिसमस्तदुःखौघघातनपरमौषधं चारित्रं गृह्णीय। अनेन परमौषधेन अन्नाता मादृशा जीवाः परमानन्दपदं प्राप्ताः, अतो मम चारित्रग्रहणानुज्ञां देहि" | इति शालेर्वचांसि श्रुत्वा स्नेहयथिला माता मूर्च्छया भूमौ पतिता । ततो दासीभिर्वातादिशीतलोपचारैः सज्जीकृता तदा वियोगदुःखाशया विदीर्यमाणहृदया आक्रन्दं कुर्वती वक्तुं लग्ना- 'पुत्र ! त्वया कर्णयोस्तप्तत्रपुप्रायं किमिदं जल्पितम् ?। तव व्रतस्य का वार्ता ?,व्रतंतु तवाशुभचिन्तकाः प्रातिवेश्मिका ग्रहीष्यन्ति, तव चारित्रं कीदृशम् ?|| तदा शालि: प्राह-'मातः! मैवं वद, ये चारित्रग्राहकास्ते कस्यापि अशुभचिन्तका न भवन्ति । ते तु जगज्जीवाना ४५१॥ Jain Educatio For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496