Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar,
Publisher: Raj Rajendra Prakashan Trust
View full book text
________________
श्रीधन्य
नवमः पल्लव:
चरित्रम्
॥४५०॥
काटिजीवान् कम्पयति, नित्यं प्रकृष्टबलयुक्तोऽनेकभूपतीन् नमयति, मुखाद् निर्गतं वाक्यं व्यर्थं न भवति, आखेटकक्रियया सहस्रशो जीवान् व्यथयति, गीत-नृत्यादिमनश्य जगज्जीवान् तृणवद् गणयन् तिष्ठति: स मृत्वा नरकेषूत्पन्न एकाक्येव क्षेत्रवेदनां परमाधार्मिककृतदेवनां परस्परकृतवेदनां च सहते, तत्र कोऽपि तं न रक्षति । असङ्घयकालं यावच्च मृत्वा तिर्यसूत्पद्यते, तत्रापि अनेकजीवान् हत्वा पुनर्नरकेषूत्पद्यते । एवं क्रमतो भ्राम्यति । अथ परभवस्तु दूरे आस्ताम्, इहैव विचित्रकर्मविपाकोदयेन जीवोऽनेका अवस्था अनुभवति, चक्रिसदृशोऽपि रङ्कवद् रुलितः श्रूयते । यावज्जीव: कर्माधीनस्तावत् संसारे परिभ्रमति । यावत् सुश्रद्धया श्रीमज्जिनवाण्या च कर्मगतिकुशलो भूत्वा मोहनीयं कर्म न क्षयपति तावज्जीवस्य सुखं कुतः? | तत्र यत् सांसारिक सुखं तत्तु चौरवधवेलामिष्टान्नतुल्यम् | यथाऽत्यन्तमरणभयस्य चौरस्य मिष्टान्नं प्रियं न लगति, एवम् आगमाद् विज्ञातपौद्गलिकसुखास्वादकटुफलनरक-निगोदादिरूपस्य सांसारिक सुखं न प्रियं लगति, प्रत्युत वैराग्योदयो भवति । यतः -
"मधुरं रसमाप्य स्यन्दते, रसनायां रसलोभिनां जलम ।
परिभाव्य विपाकसाध्वसं, विरतानां तु ततो दृशि जलम" ||१|| इत्येवं पुनः पुनर्वीरदेशनां श्रुत्वा द्विगुणभूतसंग: वे शालिभद्रः प्रभुं नत्वा वेगतो निजधाम आगत्य, वाहनादुत्तीर्य, गृहस्योपरि गत्वा यत्र माताऽस्ति तत्रागत्य प्राह-मातः ! अद्याहं वीरवन्दनार्थं गतः । तत्रस्थेन
॥४५०॥
Jain Education rematang
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496