Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar,
Publisher: Raj Rajendra Prakashan Trust
View full book text
________________
श्रीधन्य चरित्रम्
॥ ४५२ ॥
Jain Education International
मैत्रीभावं गताः सकलजीवानां हितकारका जगद्वन्द्यतां प्राप्ताः,' । तदा माता प्राह-'वत्स ! तव शरीरम् अन शरीरेण संयम निर्वाहो न भवेत् । चारित्रं तु वज्रकठिनं, तव शरीरं तु उत्पलकोमलम् । येऽप्यतिदृढशरीरास्तैरपि भागवत्या दीक्षायाः पालनं दुष्करं तच्च त्वया कथं निर्वक्ष्यते ?' | शालिः प्राह - 'मत्तोऽतिकोमला भूमिपतय एकातपत्रं राज्यं विहाय, दुष्करं चारित्रं लात्वा श्रीवीरचरणकमलोपासनं कुर्वते' । माता प्राह-'वत्स ! मया तु तव शरीरदृढत्वं तदैव ज्ञातं यदा राजा गृहमागतः, त्वं सबहुमानमङ्के स्थापितः, ततो राज्ञा स्नेहेन तव पृष्ठे हस्त्स्पर्शनं कृतं तदा तव शरीराद् गिरिनिर्झरणोद्गार इव प्रस्वेदधारा निर्गता मया च विज्ञप्तिं कृत्वा मोचित आसीत् । ईदृशस्त्वं जिनदीक्षां ग्रहीतुमुत्सुकः कस्य न हास्यस्पदं भवेः ? | मर्कोटको हि गुडगोणीमुत्पाटयितुं समीहते, एतत् कथं सम्भाव्यते ? । तदा शालिः प्राह मातः ! द्वीन्द्रियादयो जीवा अतिकोमला अपि उद्यमेन वाञ्छितं काष्ठं शुषिर कुर्वन्ति, तद्रसं भुञ्जते । अतोऽत्र कठिन - कोमलयोः कार्यसाधना -ऽसाधने एकान्तेन नियतत्वं नास्ति, किन्तु तीव्र श्रद्धापूर्वकोद्यमेन सर्वं सिध्यति । किञ्च, भूमिपतयः परमसुखास्वादनिमग्नाः, सुखास्वादरसिकाः, छत्रच्छाययाऽच्छन्नशरीरा, अतिकोमले सिंहासने स्थिता, अग्रतो गाय गणैरातोद्यैश्व उत्पादितमधुररागमूर्च्छया मूर्च्छितहृदयास्तिष्ठन्ति; भूमौ पदमात्रं न स्पृशन्ति, गृहान्तः सञ्चरन्तो बहुभिः सेवकैः 'खमा खमा' इति शब्देन लाल्यमाना राज्यसुखं भुज्यते, ऋतुम् ऋतुं प्रति भिन्नं भिन्नं सुखं भुआना गतमपि कालं न जानन्ति तेऽप्युत्पन्ने शत्रुभये सर्वं सुखं विहाय, गुरुतर लोहमयकवचं परिधाय, शिरसि वज्रकण्टकाकीर्णं लोहमयमुकुटं धारयित्वा, अतिवेगवदश्वारोहणं कृत्वा, खङ्ग खेटक तोमर
For Personal & Private Use Only
नवमः पल्लवः
॥ ४५२ ॥
www.jainelibrary.org

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496