SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य नवमः पल्लव: चरित्रम् ॥४५०॥ काटिजीवान् कम्पयति, नित्यं प्रकृष्टबलयुक्तोऽनेकभूपतीन् नमयति, मुखाद् निर्गतं वाक्यं व्यर्थं न भवति, आखेटकक्रियया सहस्रशो जीवान् व्यथयति, गीत-नृत्यादिमनश्य जगज्जीवान् तृणवद् गणयन् तिष्ठति: स मृत्वा नरकेषूत्पन्न एकाक्येव क्षेत्रवेदनां परमाधार्मिककृतदेवनां परस्परकृतवेदनां च सहते, तत्र कोऽपि तं न रक्षति । असङ्घयकालं यावच्च मृत्वा तिर्यसूत्पद्यते, तत्रापि अनेकजीवान् हत्वा पुनर्नरकेषूत्पद्यते । एवं क्रमतो भ्राम्यति । अथ परभवस्तु दूरे आस्ताम्, इहैव विचित्रकर्मविपाकोदयेन जीवोऽनेका अवस्था अनुभवति, चक्रिसदृशोऽपि रङ्कवद् रुलितः श्रूयते । यावज्जीव: कर्माधीनस्तावत् संसारे परिभ्रमति । यावत् सुश्रद्धया श्रीमज्जिनवाण्या च कर्मगतिकुशलो भूत्वा मोहनीयं कर्म न क्षयपति तावज्जीवस्य सुखं कुतः? | तत्र यत् सांसारिक सुखं तत्तु चौरवधवेलामिष्टान्नतुल्यम् | यथाऽत्यन्तमरणभयस्य चौरस्य मिष्टान्नं प्रियं न लगति, एवम् आगमाद् विज्ञातपौद्गलिकसुखास्वादकटुफलनरक-निगोदादिरूपस्य सांसारिक सुखं न प्रियं लगति, प्रत्युत वैराग्योदयो भवति । यतः - "मधुरं रसमाप्य स्यन्दते, रसनायां रसलोभिनां जलम । परिभाव्य विपाकसाध्वसं, विरतानां तु ततो दृशि जलम" ||१|| इत्येवं पुनः पुनर्वीरदेशनां श्रुत्वा द्विगुणभूतसंग: वे शालिभद्रः प्रभुं नत्वा वेगतो निजधाम आगत्य, वाहनादुत्तीर्य, गृहस्योपरि गत्वा यत्र माताऽस्ति तत्रागत्य प्राह-मातः ! अद्याहं वीरवन्दनार्थं गतः । तत्रस्थेन ॥४५०॥ Jain Education rematang For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy