________________
श्रीधन्य चरित्रम
नवमः पल्लव:
॥४५१॥
मया धर्मदेशना श्रुता, स देशना मह्यं रुचिता'। माता प्राह-'धन्योऽसि त्वं, कृतपुण्योऽसि पुत्र ! त्वम् । भव्यं कृतं त्वया यत् त्वं श्रीमज्जगन्नाथवन्दनार्थं गतः। तदा शालिभद्रः प्राह-मातः! तां देशनां श्रुत्वाऽनादिभवभ्रान्तिर्गता, चतुर्गतिकसंसारसंसरणप्रवृत्तिः सहेतुका मया ज्ञाता, परमाऽनर्थदायिनो विषया मया स्पष्टतयाऽवगताः, जन्मजरा-मरण-रोग-शोकादिभृतोऽयं संसार: सम्यग्रीत्योपलक्षितः; अतोऽधुनाऽत्र संसारे रतिभावो मम नास्ति, आपातरम्याः कामभोगा अनन्तकालं यावद् दुःखहेतवोऽधुना मां न रोचन्ते । अस्मिन् संसारे जरा मरणादिदुःखकाले न कोऽपि शरणं ददाति । दुष्कर्मविपाकाऽनुभवसमये एकाक्येव रटन् जीवो यथोदयगतिं गच्छति, कोटिसङ्ख्यया च स्वजन-सेवकवर्गेषु सत्स्वपि एकाक्येव जीवो याति आगच्छति च; तत्र शुभाऽशुभकर्मप्रकृतिं विहाय नान्यः कोऽपि सह याति । यावद् जन्म-मरणादिभयं न गतं तावद् जीवस्य सुखं नास्ति । मधुलिप्तखङ्गधारालेहनतुल्या अमी विषया मुखे मिष्टाः परिणामे १ दुष्टाः, ते च शूलि-दुर्जन-चौरा इवाऽवश्यं दुःखं ददत्येव अतोऽहं चेत् तवाज्ञा भवेत् तदा जन्मादिसमस्तदुःखौघघातनपरमौषधं चारित्रं गृह्णीय। अनेन परमौषधेन अन्नाता मादृशा जीवाः परमानन्दपदं प्राप्ताः, अतो मम चारित्रग्रहणानुज्ञां देहि" | इति शालेर्वचांसि श्रुत्वा स्नेहयथिला माता मूर्च्छया भूमौ पतिता । ततो दासीभिर्वातादिशीतलोपचारैः सज्जीकृता तदा वियोगदुःखाशया विदीर्यमाणहृदया आक्रन्दं कुर्वती वक्तुं लग्ना- 'पुत्र ! त्वया कर्णयोस्तप्तत्रपुप्रायं किमिदं जल्पितम् ?। तव व्रतस्य का वार्ता ?,व्रतंतु तवाशुभचिन्तकाः प्रातिवेश्मिका ग्रहीष्यन्ति, तव चारित्रं कीदृशम् ?|| तदा शालि: प्राह-'मातः! मैवं वद, ये चारित्रग्राहकास्ते कस्यापि अशुभचिन्तका न भवन्ति । ते तु जगज्जीवाना
४५१॥
Jain Educatio
For Personal & Private Use Only
www.jainelibrary.org