Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 458
________________ श्रीधन्य चरित्रम् नवमः पल्लव: ॥४४९॥ सौधर्मे देव्यभूत्, ज्ञानेनोपकारं स्मृत्वा तेषामेव सूरीणां सान्निध्यकारिणी बभूव । गुरवोऽपि नव्यदीक्षितसाधुभिः सह पृथिव्यां विजहुः । क्रमेण संयममाराध्य सम्प्राप्तकेवलश्चन्द्रधवलराजर्षिः शिवं प्राप्तः। धर्मदत्तो धनवती च संयममाराध्य कृतमाससंलेखनौ समाधिना मृत्वाऽनुत्तरसुरौ संजातो, तत्र च त्रयस्त्रिंशत्सागरायुः प्रपाल्य विदेहे मनुजौ भृत्वा शिवं यास्यतः। अथ वीरधवलो महाविभूत्या नगरं प्रविश्य न्यायघण्टावादनपूर्वकं राज्यं पालयति । कियद्भिर्दिनैस्तस्य पिता तद्वार्ता श्रुत्वा, सहर्ष सबहुमानमाहाय्य, तस्य राज्यं दत्त्वा आत्मसाधनपरोऽभूत्। एवं वीरधवलोराज्यद्वयं बहुकालं प्रतिपाल्य, अवसरे श्रीदत्ताऽभिधपुत्राय राज्यं दत्त्वा, त्रिधा शुद्ध्या चारित्रमाराध्य शिवं प्राप्तः । ॥ इति धर्मदतस्य तदन्तर्गतचन्द्रधवल-वीरधवलयोवृत्तान्तः ॥ ___ "तस्माद् भो भव्याः! धर्मदत्तस्य मोहमलिम्लुचकृतविचित्रविपाकगर्भितं परमौदासीन्यजनकं चरितं निशम्य, तज्जयोपायं परमवैराग्य सशालिनी संसारभावनां भजत | संसारे हि परिभ्रमणं कुर्वद्भिर्जीवैर्विविधकर्मगत्या चतसृषु गतिषु के के पर्याया न प्राप्ताः ? | यथा-भूपतिर्भूत्वा रङ्को भवति, रङ्कोऽपि भूपतिः । दरिद्रो धनपतिः, धनपतिरपि दरिद्रः । देवराजो मृत्वा गर्दभः, गर्दभो देवराजो भवति । कीटिका हस्ती भवति, हस्त्यपि कीटिका भवति । इत्यादयो भवान्तरेऽनेके पर्याया उत्पद्यन्ते। पूर्वभवानुभूतं किमपि न स्मरति जीवः, प्राप्तभवाऽभिमानेन मत्तस्तिष्ठन्ति । य इहलोकेऽखण्डचण्डशासनो राजा सप्ताङ्गयुक्तो राज्यं पालयन् अक्षिस्फुरणमात्रेण १.रोर: ।२.यथा। ॥४४९॥ Jain Educ For Personal & Private Use Only | www.jainelibrary.org

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496