Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 455
________________ श्रीधन्य चरित्रम ॥ ४४६॥ Jain Education Inte अथ तेन कुमारेण तस्मिन् पर्वदिने एकस्माद् महेभ्यगृहात् सक्तु-गुडभिक्षा लब्धा । स तां लात्वा सरस्तीरे गतः । तत्र सक्तुर्जलेनार्द्रीकृत्य गुडेन मिश्रितः कृत्वा भोक्तं योग्यो निर्मापितः । ततः कुमारेण चिन्तितम्- “साम्प्रतं | कोऽप्यन्नार्थी आगच्छेत् तदा भव्यं भवेत्, किञ्चित् तस्मै दत्त्वा भक्षयामि 'स्तोकादपि स्तोकमपि देयम्, इति श्रुतेः” । एवं यावता ध्यायति तावता तेन पुण्यप्राग्भारस्योदयात् कोऽपि मासोपवासी साधुर्मार्गे गच्छन् दृष्टः । स च पारणार्थं ग्राममध्ये गोचर्यां गत आसीत्; तत्र प्रथमं प्रासुकं जलं मिलित, परम् एषणीयाहारो न लब्धः । ततो जलमात्रं गृहीत्वा, 'अलब्धे तपसो वृद्धिः, लब्धे तु देहधारणा' इति ध्यायन् समतैककलीः सन्तोषामृतभोजनो मुनिर्बहिर्गच्छन्नस्ति । तं दृष्ट्वा कुमारोऽत्यन्तप्रमुदितचित्तो विचिन्तयति -'अहो ! अद्यापि मम भाग्यानि जाग्रति, यद् अयमतर्कितो मूर्तिमान् धर्म इव साधुरागतः । इति ध्यात्वा सप्ताष्टपदानि सम्मुखं गत्वा प्रोचे यत् - अद्य पूर्वसुकृतं फलितं मे, लब्धमद्य वहनं भववाऔं । अचिन्तितमणिः करमागाद्, वीक्षितो यदि भवान् मुनिराज ः " ||१|| I अनाथस्य मम परमनेता मिलितः । भोः करुणाम्भोधे ! मम वराकस्योपरि कृपां कृत्वा पात्रं प्रसारयतु, इमं निर्दूषणं पिण्डं गृह्णातु, मां च निस्तारयतु' । इति वदन् समग्रमपि पिण्डमुत्पाट्य, साध्वग्रे हस्ताभ्यां धृत्वा स्थितः । तदा साधुनापि एषणीयं ज्ञात्वा प्रोक्तम्- - 'देवानुप्रिय ! अवशेषं ददस्व, न वयं समग्राहिणः' । कुमारेणोक्तम् -'स्वामिन्! यदि अवशेषसंसारदुःखौघरक्षणेच्छा भवेत् तदाऽवशेषं दद्याम्; मम तु For Personal & Private Use Only नवमः पल्लवः ॥ ४४६ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496