Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 453
________________ श्रीधन्य चरित्रम नवमः पल्लव: ॥४४४॥ तथा "इक्कस्स कए नियजीवियरस, बहुयाओ जीवकोडिओ। दुक्खे ठवन्ति जे कवि, ताण किं सासयं जीयं ?" ||१|| इति विचारयन् हिंसायां केवलं दोषाऽपरिमितत्वं दृष्ट्वा दयायां चाऽपरिमितगुणान् दृष्ट्वा, करुणापुष्ट्या स्वमनसि जीवघातनियमं दृढतया हीत्वा निवृत्तो गृहमागतः । मृगीघाते च स्मृतिपथमागते पुनस्तथैव स्वं निन्दता बहुतराणि पूर्वकृतपापकर्माणि क्षपितानि | __ अन्यदा पौरा राजसभायां पूत्कुर्वन्त आगताः- 'देव ! कोऽपि अपूर्वो निपुणश्यौर उत्थितः, पुरं मुषितम्, केऽपि धनवन्तो महेभ्या दरिद्रभावमापन्ना अनिर्वचनीयं कष्टं प्राप्नुवन्ति । तदा राज्ञा आरक्षकानाहूय प्रोक्तम्'रे रे आरक्षका ! किं पुरस्य रक्षा नो क्रियते ?' | तैरुक्तम्-'देव ! पुरं महद्, आरक्षकास्तु स्तोकतराः स्तोकैर्जनैर्दुग्राह्योऽयम्, बहुदुर्बुद्धिभाण्डागारश्चौरः, बहुभिः कृतक्लेशैरपि हस्ते न चटितः । तदा राज्ञोक्तम्'अद्याऽहमेव चौरं निगृह्णामि'। इति श्रुत्वा प्रमुदिताः पौराः स्वस्वगृहमागताः। सन्ध्यायां वीरधवलमाहूय प्रोक्तम्'वत्स ! चौरेण बहवो लोकाः सन्तापिताः, एषा लज्जा आवयोर्लगति । अतोऽद्य सर्वाभिसारेण चतुष्किकायाम् अप्रमादवता मौनेन स्थेयं, यथाऽयं धूर्तो हस्ते चटेत् । अमुकदिशि त्वं गच्छ, अपरदिशि अहं गच्छामि' इति | विभागं कृत्वा स्थाने स्थेयं चतुष्किका मुक्ता | सर्वेऽपि राजादिष्टस्थाने गुप्तावृत्त्या निलीय स्थिताः । अथ तस्यां १. एकस्य कृते निजजीवितस्य, बहुका जीवकोटयः । दुःखे स्थापयन्ति ये कोऽपि, तेषां किं शाश्वतं जीवितम् ।।१।। ||४४४|| Jain Education international For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496