________________
श्रीधन्य चरित्रम
नवमः पल्लव:
॥४४४॥
तथा
"इक्कस्स कए नियजीवियरस, बहुयाओ जीवकोडिओ।
दुक्खे ठवन्ति जे कवि, ताण किं सासयं जीयं ?" ||१|| इति विचारयन् हिंसायां केवलं दोषाऽपरिमितत्वं दृष्ट्वा दयायां चाऽपरिमितगुणान् दृष्ट्वा, करुणापुष्ट्या स्वमनसि जीवघातनियमं दृढतया हीत्वा निवृत्तो गृहमागतः । मृगीघाते च स्मृतिपथमागते पुनस्तथैव स्वं निन्दता बहुतराणि पूर्वकृतपापकर्माणि क्षपितानि | __ अन्यदा पौरा राजसभायां पूत्कुर्वन्त आगताः- 'देव ! कोऽपि अपूर्वो निपुणश्यौर उत्थितः, पुरं मुषितम्, केऽपि धनवन्तो महेभ्या दरिद्रभावमापन्ना अनिर्वचनीयं कष्टं प्राप्नुवन्ति । तदा राज्ञा आरक्षकानाहूय प्रोक्तम्'रे रे आरक्षका ! किं पुरस्य रक्षा नो क्रियते ?' | तैरुक्तम्-'देव ! पुरं महद्, आरक्षकास्तु स्तोकतराः स्तोकैर्जनैर्दुग्राह्योऽयम्, बहुदुर्बुद्धिभाण्डागारश्चौरः, बहुभिः कृतक्लेशैरपि हस्ते न चटितः । तदा राज्ञोक्तम्'अद्याऽहमेव चौरं निगृह्णामि'। इति श्रुत्वा प्रमुदिताः पौराः स्वस्वगृहमागताः। सन्ध्यायां वीरधवलमाहूय प्रोक्तम्'वत्स ! चौरेण बहवो लोकाः सन्तापिताः, एषा लज्जा आवयोर्लगति । अतोऽद्य सर्वाभिसारेण चतुष्किकायाम् अप्रमादवता मौनेन स्थेयं, यथाऽयं धूर्तो हस्ते चटेत् । अमुकदिशि त्वं गच्छ, अपरदिशि अहं गच्छामि' इति | विभागं कृत्वा स्थाने स्थेयं चतुष्किका मुक्ता | सर्वेऽपि राजादिष्टस्थाने गुप्तावृत्त्या निलीय स्थिताः । अथ तस्यां
१. एकस्य कृते निजजीवितस्य, बहुका जीवकोटयः । दुःखे स्थापयन्ति ये कोऽपि, तेषां किं शाश्वतं जीवितम् ।।१।।
||४४४||
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org