________________
श्रीधन्य
नवमः पल्लव:
चरित्रम्
॥४४३॥
नागतः, श्रीमद्गुरुवचनम् अन्यथा न भवति' एवं यावत् चिन्तयति तावता तु पूर्वदिग्मार्गे दिव्यतूर्याणां रवः श्रुतः । यावता राजा सर्वेऽपि लोकाश्व विस्मिता विलोकयन्ति, किमिदं किमिदम् ?' इति वदन्ति च, तावता पूर्वदिशः श्वेतगजाधिरूढो धृतश्वेतच्छत्र उभयतश्यामरैर्वीज्यमानो दिव्याभरणभूषितः कोऽपि दिव्यवादित्रगीत-नृत्यादियुक्तो बहुदेवर्द्धिसमेतस्तत्रागतः। आगतमात्रः स श्वेतगजादुीर्य सविनयं गुरु नत्वा उपविष्टः । तदा गुरुभिर्भूपं प्रत्युक्तम्-'राजन् ! अयं स वीरधवलः' । राज्ञोक्तम्-स्वामिन् ! कोऽयम् ?, कुत आयातः ?, कथमनेन ज्ञातो मम दीक्षावसरः ?, इति प्रसाद्यताम्, | | गुरुभिरुक्तम्-“श्रूयताम् अस्य व्यतिकर:
|| वीरधवलवृत्तान्तः ॥ सिन्धुदेशे वीरपुरं नगरम् । तत्र जयसिंहो नाम रजा । तस्य वीरधवलः पुत्रः । स च मृगयाव्यसनी प्रतिदिनम् आखेटक्रियातत्परोऽन्यदा मृगीमेकां सगीं बाणेन विव्याध | तस्या गर्भ तडफडायमानं भूमौ पतितं वीक्ष्य तथा भवितव्यतायोगतः कुमारस्य स्वयमेव करुणा सम्प्राप्ता । स्वं च निन्दितुंलग्न:-"हा! मया सगर्भा हरिणी हता । एते वनजा अनाथा अशरणा अदोषाः पशवोऽस्मादृशैः पृथ्वीनाथैनिःशङ्कतया हन्यन्ते तदा एते वराकाः कस्याऽये पूत्कुर्युः ? । यतः
"रसातलं यातु यदत्र पौरुषं कुनीतिरेषाऽशरणो ह्यदोषवान् । निहन्यते यद बलिनापि दुर्बलो, हहा! महाकष्टमराजकं जगत" ||२||
॥४४३॥
Jan Education n
ational
For Personal & Private Use Only
wwwtaryong