________________
श्रीधन्य चरित्रम्
नवमः पल्लव:
॥४४२॥
| यतद् भवतु, परं चारित्रमवश्यं ग्रहीष्याम्येव । यतो जिनेन धर्मे उद्यम एवं मुख्यतया ज्ञापितः, औदयिके तु नियतकर्मणो मुख्यत्वं प्रोक्तम्, अतः श्वो निश्चयेन चारित्रं ग्राह्यम्" । इत्युक्त्वा मन्त्रिण विसर्य संयमग्रहणचिन्तापरः शय्यायां सुष्वाप | तदा पाश्चात्यरात्रौ स्वप्नं ददर्श काऽपि दिव्यरूपा दिव्याभरणभूषिता स्त्री समेत्य भूपं प्राह – 'राजन् ! राज्यंचिन्तां मा कुरु, तव राज्य न्यायैकनिष्ठस्य वीरधवलस्य दत्तम्, अतः सोत्साहं सुखेन संयमग्रहणं कुरु।एषा वरमाला संयमश्रीसत्का तव कण्ठे क्षिप्यते'। इत्युक्त्वाऽदृश्यतां प्राप्ता। तदा राजा प्रबुद्धोऽचिन्तयत्-'किमिदम् ?, अस्य को भावार्थः ? को वीरधवल: ? तस्य नामाऽपि न श्रुतम् !' । एवं विचिन्तयतः प्रभातं जातम् । तदा मन्त्रिभिरुक्तम्-'अस्माभिस्तु न ज्ञात:, श्रीगुरवः प्रष्ठव्याः' । ततो राज्ञा स्वल्पपरिच्छदेन गुरोरुपान्ते गत्वा नत्वा च रात्रिगतस्वप्नस्वरूपं पृष्टम् – 'स्वामिन् ! को वीरधवल: ?, पूर्व कदापि न ज्ञातो न च श्रुतः' । तदा गुरुभिरुक्तम्-'राजन् ! त्वं संयमाय सज्जो भव | यदा त्वं दीक्षाग्रहणाय अत्रागमिष्यसि तदा तस्य पूर्वदिशः समागमो भविष्यति, स तव दीक्षोत्सवं करिष्यति' । इति श्रुत्वा निश्चिन्तो भूत्वा गृहं गत्वा यथायोग्य सेवकादिनां धनं दत्त्वा, धनं च पुष्टयधिकरणं मत्वा संयमश्रियं जिक्षुर्जिनभवनजिनबिम्बादिषु सप्तसु क्षेत्रेषु उल्लासेन श्रियम् उप्त्वा, राजा धन्यः कृतकृत्यो जातः । तदा धर्मदत्तोऽपि स्वजनपरिवारादीनां यथोचितं दत्त्वा, सर्वैः सह क्षामणां कृत्वा तेषामाशिषं लात्वा सप्रियो निर्गतः। ततो भूपालधर्मदत्तौ महोत्सवपूर्वकं सर्वर्या गुरुचरणं गतौ । तदा लोकाश्चिन्तयन्ति-राजा तु दीक्षा लाति!, अस्माकं च पालनाय न कोऽपि राजा स्थापितः, अत्र का गतिविनी?'। राजाऽपि-गुरुभिरुक्तो राज्याझेऽधुनापि
॥४४२॥
in Education International
For Personal & Private Use Only
www.jainelibrary.org