________________
श्रीधन्य
चरित्रम्
नवमः पल्लवः
॥४४५॥
रात्रौ स चौरो दैवात् कुमारचतुष्किकायां पतितः । तदा कुमाराज्ञया तभृत्यैः खेटकैरेवाच्छादितो यथा बहुभिर्न ज्ञायेत । ततः कुमारेण चिन्तितम्-'प्रात इमं राजा हनिष्यति, पञ्चेन्द्रियवधाच्च निश्चितं मे पापं भावि, तदा च मे | गृहीतनियमो मलिनो भविष्यति । पापोद्भूतं यशस्तु दुर्गतिहेतुः । अतः साम्प्रतम् अस्य जीवन्मोचनमेव वरम्'। इति ध्यात्वा स जीवन मुक्तः। तत्क्षणं नष्टः स चोरः क्वाप्यगमत् । कुमारेण प्रच्छन्नरक्षणाय भृत्यानामये प्रोक्तम्- | 'युष्माभी राज्ञोऽये मुक्तश्यौरो न वक्तव्यः' । प्रगे राज्ञा सर्वे भृत्या आकारिताः, तदा ते चौराऽप्राप्तिविलक्षा राजानं नत्वाऽये स्थिताः । राज्ञोक्तम्--भो भटा: चौरो हस्ते न चटितः ?' | तै सर्वैरुक्तम्-'देव! न चटितः' । ततः सभायां विसृष्टायां केनापि कुमारभृत्येन राज्ञो वल्लभवनाय राज्ञो दण्उभयाच्च राज्ञोऽये चौरमोचनस्वरूपं सर्वं स्वयमेव ज्ञापितम् । तच्छुत्वा कुपितेन राज्ञा वस्राऽऽभूषणादिग्रहणपूर्वकं कुमारस्य देशत्यागः कारितः । स च स्वकर्म निन्दन् मार्गे चलति । चिन्तयति च-"मया पुरा दुष्टभावेन बहूनां पञ्चेन्द्रियजीवानां मारण-ताइनादिकं पापं कृतं, तस्येदृशान्येव फलानि भवन्ति । किम् इयता मात्रेण च्छुटिष्यामि ? | न जाने किमये भविष्यति !, यतः'अत्युठ्यपुण्य-पापानाम् इहैवफलमाप्यते' इति शास्त्रोक्तेः"। एवम् आत्मनिन्दां कुर्वन् वने भ्राम्यति । फलादिना प्राणवृत्तिं कुर्वन् कियद्भिर्दिनैम्यिन् भद्दिलपुरं प्राप्तः । तदा कुमारः क्षुधया पीडितो भिक्षार्थं पुरे प्रविष्टः | दृश्यतां भव्याः! रुष्टो विधिः किं न करोति ? यतः -
“यस्य पादयुगपर्युपासनाद्, नो कदापि रमया विरम्यते । सौऽपि यतु परिदधाति कम्बलं तद विघेरधिकतोऽधिकं बलम" ||शा
॥४४५॥
Jan Education in
For Personal & Private Use Only
www.pinelibrary.org