________________
श्रीधन्य
चरित्रम
॥ ४४६॥
Jain Education Inte
अथ तेन कुमारेण तस्मिन् पर्वदिने एकस्माद् महेभ्यगृहात् सक्तु-गुडभिक्षा लब्धा । स तां लात्वा सरस्तीरे गतः । तत्र सक्तुर्जलेनार्द्रीकृत्य गुडेन मिश्रितः कृत्वा भोक्तं योग्यो निर्मापितः । ततः कुमारेण चिन्तितम्- “साम्प्रतं | कोऽप्यन्नार्थी आगच्छेत् तदा भव्यं भवेत्, किञ्चित् तस्मै दत्त्वा भक्षयामि 'स्तोकादपि स्तोकमपि देयम्, इति श्रुतेः” । एवं यावता ध्यायति तावता तेन पुण्यप्राग्भारस्योदयात् कोऽपि मासोपवासी साधुर्मार्गे गच्छन् दृष्टः । स च पारणार्थं ग्राममध्ये गोचर्यां गत आसीत्; तत्र प्रथमं प्रासुकं जलं मिलित, परम् एषणीयाहारो न लब्धः । ततो जलमात्रं गृहीत्वा, 'अलब्धे तपसो वृद्धिः, लब्धे तु देहधारणा' इति ध्यायन् समतैककलीः सन्तोषामृतभोजनो मुनिर्बहिर्गच्छन्नस्ति । तं दृष्ट्वा कुमारोऽत्यन्तप्रमुदितचित्तो विचिन्तयति -'अहो ! अद्यापि मम भाग्यानि जाग्रति, यद् अयमतर्कितो मूर्तिमान् धर्म इव साधुरागतः । इति ध्यात्वा सप्ताष्टपदानि सम्मुखं गत्वा प्रोचे यत् -
अद्य पूर्वसुकृतं फलितं मे, लब्धमद्य वहनं भववाऔं । अचिन्तितमणिः करमागाद्, वीक्षितो यदि भवान् मुनिराज ः " ||१||
I
अनाथस्य मम परमनेता मिलितः । भोः करुणाम्भोधे ! मम वराकस्योपरि कृपां कृत्वा पात्रं प्रसारयतु, इमं निर्दूषणं पिण्डं गृह्णातु, मां च निस्तारयतु' । इति वदन् समग्रमपि पिण्डमुत्पाट्य, साध्वग्रे हस्ताभ्यां धृत्वा स्थितः । तदा साधुनापि एषणीयं ज्ञात्वा प्रोक्तम्- - 'देवानुप्रिय ! अवशेषं ददस्व, न वयं समग्राहिणः' । कुमारेणोक्तम् -'स्वामिन्! यदि अवशेषसंसारदुःखौघरक्षणेच्छा भवेत् तदाऽवशेषं दद्याम्; मम तु
For Personal & Private Use Only
नवमः
पल्लवः
॥ ४४६ ॥
www.jainelibrary.org