Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar,
Publisher: Raj Rajendra Prakashan Trust
View full book text
________________
श्रीधन्य
चरित्रम्
॥ ४२८ ॥
Jain Education Inte
बन्धमायाति, पुण्यं च प्रबलं भवति । शुभोपयोगे च पूर्वकृतां कर्मणां 'रस- बन्धौ मन्दस्थितिकौ भवतः, स्वल्परसकर्मणां तु निर्जरा भवति । अतः शुभोपयोगेनैव कालक्षेपः कर्तव्य इति जिनाज्ञा । भवान् पुनरागमवासितान्तःकरणस्तस्याऽधृतिर्न भवेत्” इति समाश्वास्य स्वगृहे स्थापितः । अहमपि जिनाज्ञां पुरस्कृत्य कर्मोदयजन्यां चिन्तां संत्यज्य तद्गृहे स्थितः । अथ तेन भव्यदिने मां रहसि संस्थाप्य सर्वाः स्वघटस्थिता विद्याश्चित्तप्रसत्त्या दत्ताः मयाऽपि विधिवद् गृहीताः । ततः शुभमुहूर्ते दिवसे स्वशक्त्यनुकूलं महं कृत्वा स्वपुत्री परिणायिता, गृहभारं च मयि निवेश्य निश्चिन्तो भूत्वा गृहे एव स्थितो धर्माराधनपरः कालं निर्गमयति । अन्यदा स्वायुःस्थितिं पूर्णां ज्ञात्वा समाधिना विधिपूर्वकं कृताराधनः परलोकं प्राप्तः । अथाऽहं तस्य मृत्युकार्याणि कृत्वा धर्मार्थ कामत्रिवर्गसाधनपरो निवसामि । एवं तत्र मया सह सांसारिकवैषयिकसुखमनुभवन्त्या द्विजपुत्र्या गर्भो धृतः । काले जाते तया पुत्रः प्रसूतः, तस्य 'धनदत्त' इति नाम संस्थापितम् । स पुत्रः प्रतिपाल्यमानोऽष्टवार्षिको जातः । ततस्तस्य विद्यां ग्राहयितुं लग्नः, प्रायेण बहवो विद्यास्तेन शिक्षिताः । एवं च कियति काले गते सति तत्रैव पुरे श्री अजितसिंहसूरयः समेताः । जनमुखात् तच्छ्रुत्वा सपुत्रौ दम्पती वन्दनाय गतौ, पञ्चाभिगमपूर्वकं च वन्दित्वा स्थितौ । तदाऽमृतरसस्यन्दिनीं देशनां श्रुत्वा वैराग्यरङ्गप्लावितान्तःकरणौ बुद्धौ, गार्हस्थयं त्यक्त्वा | तस्य सूरेः पार्श्वे पुत्रसहितौ आवां व्रतम् अगृह्णीव । ग्रहणाऽऽसेवनारूपशिक्षाशिक्षितेन मया गुरुप्रसादा यथामति अनेकशास्त्रहार्दानि प्राप्तानि । ततो गुर्वभ्यर्णे तपस्क्रियां कुर्वता ज्ञानावरणीयकर्मक्षयोपशमेन अवधिज्ञानं १. स्थितिरसबन्धौ मन्दरसस्थितिको । २. जगृहतुः ।
For Personal & Private Use Only
नवमः
पल्लव:
॥ ४२८ ॥
ww.jainelibrary.org

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496