Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar,
Publisher: Raj Rajendra Prakashan Trust
View full book text
________________
श्रीधन्य
चरित्रम्
नवमः पल्लव:
॥४४॥
"शशिनि खलु कलङ्कः कण्टकः पद्मनाले, जलधिजलमपेय पण्डिते निर्धनत्वम्।
दयितजनवियोगो दुर्भगत्वं सुरुपे, धनवति कृपणत्वं रत्नदोषी कृतान्तः,' ||१|| यो य उत्तमः पदार्थः स स एकेन दोषेण दूषितः । यतः शुद्धन्यायप्रवर्तकानां, स्वर्णं दत्त्वा समस्तलोकानां ऋणमुच्छेद्य संवत्सरप्रवर्तकानां, श्रीमजिनेन्द्रभाषितधर्मे रतानां, परोपकारकरणैकधुर्याणामपि भवतां पुत्रो नाऽभूत् । अपरं च यस्य कस्यापि अनिपुणस्य राज्यदानं न युक्तम्, अतोऽधुना तु भवानेव राज्यमलङ्करोतु यावद् राज्याऽर्हपुरुषसंयोगो न भवेत् । न्यायैकनिष्ठानां दुष्कर्मविमुखाणां भवादृशानां राज्यपालनेऽपि महत्पुण्यमस्ति, यतः-'शुचिर्धर्मपरोराजा' इत्यादिश्रुतेः । गृहस्थैरेव अनेकैर्विविधदान-दयादिधर्मकर्माण्युपास्य संसारस्यान्तः कृतः श्रूयते, परम् अयोग्यस्य राज्यं दत्तं न श्रूयते । पुरा गृहस्था एव जिनाज्ञां पालयन्तो जीवनमुक्तेतिबिरूदं प्राप्ताः । तथा सिद्धान्तेऽपि गृहस्थलिङ्गसिद्धा अनन्तसङ्घयया श्रूयन्ते , अतोऽन्तरायं यावत् स्वयमेव राज्यं करोतु भवान् । जगति परोपकारकरणसन्निभोऽन्यो धर्मो नास्ति' । इति मन्त्रिवचांसि श्रुत्वा ईषद्विहस्य चन्द्रधवलेन प्रोक्तम्-“मन्त्रिन् ! यत्त्वया वचनरचनया राज्यपालनेऽपि धर्मो दर्शितः स कस्य ?- यः पञ्चमहाव्रतपालनाऽशक्तो मन्दवीर्यः, शिवकुमार इव वा पित्राद्यननुज्ञातः पूर्वसञ्चितप्रशस्तभक्ति रागेणाऽतीवपुण्यप्रकृतिको वा, अविरतिगर्भितसञ्चितपुण्यप्राग्भारो वा; स धर्मप्रियो गृहस्थितो न्यायेन राज्यं कुर्वाणो जिनाज्ञां पालयति । यच्च त्वयोक्तम्-'गृहस्थलिङ्गसिद्धा अनन्तसङ्ख्यया श्रूयन्ते' तत् यत्यम्, परं तेषां
॥४४॥
in Education in
For Personal & Private Use Only
alw.jainelibrary.org

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496