SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् नवमः पल्लव: ॥४४॥ "शशिनि खलु कलङ्कः कण्टकः पद्मनाले, जलधिजलमपेय पण्डिते निर्धनत्वम्। दयितजनवियोगो दुर्भगत्वं सुरुपे, धनवति कृपणत्वं रत्नदोषी कृतान्तः,' ||१|| यो य उत्तमः पदार्थः स स एकेन दोषेण दूषितः । यतः शुद्धन्यायप्रवर्तकानां, स्वर्णं दत्त्वा समस्तलोकानां ऋणमुच्छेद्य संवत्सरप्रवर्तकानां, श्रीमजिनेन्द्रभाषितधर्मे रतानां, परोपकारकरणैकधुर्याणामपि भवतां पुत्रो नाऽभूत् । अपरं च यस्य कस्यापि अनिपुणस्य राज्यदानं न युक्तम्, अतोऽधुना तु भवानेव राज्यमलङ्करोतु यावद् राज्याऽर्हपुरुषसंयोगो न भवेत् । न्यायैकनिष्ठानां दुष्कर्मविमुखाणां भवादृशानां राज्यपालनेऽपि महत्पुण्यमस्ति, यतः-'शुचिर्धर्मपरोराजा' इत्यादिश्रुतेः । गृहस्थैरेव अनेकैर्विविधदान-दयादिधर्मकर्माण्युपास्य संसारस्यान्तः कृतः श्रूयते, परम् अयोग्यस्य राज्यं दत्तं न श्रूयते । पुरा गृहस्था एव जिनाज्ञां पालयन्तो जीवनमुक्तेतिबिरूदं प्राप्ताः । तथा सिद्धान्तेऽपि गृहस्थलिङ्गसिद्धा अनन्तसङ्घयया श्रूयन्ते , अतोऽन्तरायं यावत् स्वयमेव राज्यं करोतु भवान् । जगति परोपकारकरणसन्निभोऽन्यो धर्मो नास्ति' । इति मन्त्रिवचांसि श्रुत्वा ईषद्विहस्य चन्द्रधवलेन प्रोक्तम्-“मन्त्रिन् ! यत्त्वया वचनरचनया राज्यपालनेऽपि धर्मो दर्शितः स कस्य ?- यः पञ्चमहाव्रतपालनाऽशक्तो मन्दवीर्यः, शिवकुमार इव वा पित्राद्यननुज्ञातः पूर्वसञ्चितप्रशस्तभक्ति रागेणाऽतीवपुण्यप्रकृतिको वा, अविरतिगर्भितसञ्चितपुण्यप्राग्भारो वा; स धर्मप्रियो गृहस्थितो न्यायेन राज्यं कुर्वाणो जिनाज्ञां पालयति । यच्च त्वयोक्तम्-'गृहस्थलिङ्गसिद्धा अनन्तसङ्ख्यया श्रूयन्ते' तत् यत्यम्, परं तेषां ॥४४॥ in Education in For Personal & Private Use Only alw.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy