________________
श्रीधन्य चरित्रम् |
नवमः पल्लव:
॥४३९॥
देवौ जातौ । ततश्च्युत्वा पितुर्जीवः स एष धर्मदत्तोऽभूत्। पूर्वजन्मनि संविभागवतेऽन्तराऽन्तरा अतिचारकरणाद् अन्तराऽन्तरा दुःखं प्राप्तम् पश्यात् षोडशमात्रमोदकदानानुमोदनेन षोडशकोटिस्वर्णनायकोऽभूत्, नाऽधिकः । पुत्रजीवस्तु त्वं भूपतिरभूः पूर्णभक्तिपूर्वकदानेनाऽधिकतरपुण्याद् अक्षयस्वर्णनरः प्रादुर्भूतः।
॥इति धर्मदत्तस्य चन्द्रधवलस्य च पूर्वभववृत्तान्त ः॥ इति पूर्वभववार्तां श्रुत्वा नृपतिश्चिन्तयितुं लग्न:- शास्त्रे यदुक्तं त्तउतथैव भवद् दृश्यते । यतः - "धर्म एव सदा येषां दर्शनं प्रतिभूरभूत । क्वचित त्यजति किं नाम तेषां मन्दिरमिन्दिरा ?" ||१||
यद्यप्येवम्, तथापि मोक्षं विनाऽक्षयसौख्यं न भवति' इति ध्यात्वा गुरून् प्रत्यूचे-'प्रभो ! अपारभवपारावारसंतरणाय चारित्रपोतं मे देहि, भवत्कृपया मत्कार्यं सेत्स्यति । अतोऽहं गृहे गत्वा, जनव्यवहाराऽनुवृत्त्या राज्यचिन्तां कृत्वा,'आजीवितं भवच्चरणपर्युपासनां कर्तुमागमिष्यामि, तदा च भवता मम वराकस्योपरिकरुणां कृत्वा चारित्रं दातव्यम्' | गुरुभिरुक्तम्-- 'यथाऽऽत्मनो हितं भवेत् तथा कुरु, परं मा प्रमादोऽनुसर्तव्यः'। राज्ञोक्तम्-- 'तहत्ति' । ततो राज्ञा गुरुं नत्वा, गृहमागत्य, भोजनं कृत्वा, आस्थाने समेत्य, अमात्यमाहूयोक्तम्भो मन्त्रिन् ! राज्यं कस्य देयम् ?'। तेनोक्तम् - "स्वामिन् ! जगति विपरीता विधेगतिः । यत: -
॥४३२॥
१.आजन्म।
Jain Educatio
For Personal & Private Use Only
www.iainelibrary.org