________________
श्रीधन्य चरित्रम्
नवमः पल्लवः
॥४३८॥
न भवति, केवलं मम बालस्येच्छा पूरणाय कृपापरैर्भवद्भिर्विज्ञप्तिरङ्गीकृता, तद्भवदीयोपकारम् आजन्म न विस्मरिष्यामि । पुनरीदृशो दिनः कदा समेष्यति ?' इति वदता कुमारेण साधवो वन्दिताः। ततः साधवो धर्मलाभं दत्त्वा पश्चाद्वलिताः। कुमारोऽपि सप्ताष्टपदानि पृष्ठतो गत्वा, पुनर्वन्दनांकृत्वा, दानं चाऽनुमोदयन् गृहमागतो गृहकार्यार्थं प्रवृत्तः । कुमारेण तेन भावोल्लासेन बहुतरं पुण्यमुपार्जितम् यतो दूषणै रहितं भूषणैश्य सहितं दानमनन्तगुणं फलति । दानस्य दूषणानि यथा - "अनादरो विलम्बश्च वैमुख्यं विप्रियं वचः। पश्चात्तापश्च पञ्चाऽमी सद्दानं दूषयन्त्यहो।" ||शा भूषणानि यथा - "आनन्दाश्रुणि रोमाञ्चो बहुमानं प्रियं वच :। किञ्चाऽनुमोदना काले दानभूषणपञ्चकम" ||१||
अथ पूजायां पूर्णायां श्रेष्ठिना पृष्टम्-'मदुक्ता मोदका दत्ता; ?' | कुमारेण दत्ता' इत्युत्तरं 'दत्तम् । तदा श्रेष्ठिना परिमितभावत्वेन तावन्मात्रमेव पुण्यमुपार्जितम्, विचित्रा ह्यध्यवसायानां गतिः । पुत्रेण तु अपरिमितभावोल्लासेन पात्रबहुमानेन चाऽमितं पुण्यमुपार्जितम्, गम्भीरतया च न कस्याप्यये कथितम्, यथावसरे पुनरनुमोदितं च । अथ मुहूर्तदिने लक्ष्मीचन्द्रस्य विवाहो जातः । कियन्ति दिनानि भव्यान् प्रतिबोध्य गुरवोऽन्यत्र विहृताः अथ तौ पिता-पुत्रौ यावज्जीवं धर्मं प्रपाल्य पूर्णमायुर्भुक्त्वा शुभध्यानेन मृत्वा सौधर्मे देवलोके १. उत्तरो दत्तः।
॥४३८॥
Jain Education Intera
For Personal & Private Use Only
maw.jainelibrary.org