________________
श्रीधन्य
चरित्रम्
॥४३७॥
वृद्धास्तु प्रायेण कृपणहस्ता भवन्त्येव । अद्य ममैव महान् भाग्योदयो यद् विवाहावसरे मोदकैभृते गृहेऽनाहूता जङ्गमसुरद्रुमा इव साधवः कुतोऽपि समागताः । आजन्मरोरगृहे कामधेन्वा आगमनमिवाऽतर्कितलाभस्थानं | प्राप्तं कथं मुञ्चामि ?' ! इति वीर्योल्लासवृद्धया प्रस्फुलितहृदयो रोमाञ्चितशरीरश्व सहर्षम् अगणितमोदकैः | सशिखं स्थालमापूर्य, हस्ताभ्यां समुत्पाट्य साध्वभ्यर्णं समागत्य हसितवदनः प्राह- 'स्वामिनः ! एते मोदका गृह्यन्ताम् तदा साधुभिरुपयोगं दत्त्वा आगमानुसारिणं शुद्धमाहारं ज्ञात्वा प्रोक्तम्- 'देवानुप्रिय ! एतावन्तः किमर्थमानीताः ? । एतन्मध्याद् यथायोग्यमस्मभ्यं देहि, नाऽधिकैः प्रयोजनम् । कस्याप्यन्तरायो मा भवतु' । लक्ष्मीचन्द्रेणोक्तम्- 'स्वामिनः ! अन्तरायस्तु अद्यैव त्रुटितो यदा मम वराकस्याऽङ्गणं युष्मच्चरणन्यासैः पवित्रितम् । अन्यच्च मम महता भाग्योदयेन बहुभिर्वाचंयमैः सह श्रीधर्मघोषसूरयः समागताः । एते मोदका भवदीयरुच्यनुसारेण आहार्याः, अन्ये पुनरन्यसाधुभ्यो दातव्याः इति मदीयो हर्षः कृपया पूरणीयः । पात्रं प्रसारयन्तु, | मां च निस्तारयन्तु भवन्तः' । एवं तस्यातीव भावोल्लासं ज्ञात्वा, निःस्पृहैरपि मुनिभिः 'भावव्याघातो मा भवतु' इति हेतोः पात्रं प्रसारितम् । ततः कुमारेण स्वहस्ताभ्यां स्थालमुत्पाट्य परमप्रीत्या पात्रे झोलिकायां च वितरणे क्रियमाणे, साधुभिः 'सृतं सृतम्' इत्युच्यमानेऽपि सर्वेऽपि मोदका वितीर्णाः । कुमारस्य हृदये तु हर्षो न माति, 'प्रसन्नवदनश्व विज्ञप्तिं कर्तुं लग्न: - 'स्वामिभिरद्य मम बालस्योपरि महती कृपा कृता यन्मम भावो न खण्डितः । युष्माकं तु एतत्स्पृहा नास्ति तदहं सम्यग् रीत्या जानामि; साधूनां हि तु ढोकलके घृतपूरे च किमपि न्यूनाधिकत्वं १. प्रसन्नवदनेन ।
Jain Education International
For Personal & Private Use Only
नवमः
पल्लवः
|॥४३७॥
www.jainelibrary.org