________________
श्रीधन्य चरित्रम्
॥ ४३६॥
Jain Education Inaars
ततो लक्ष्मीचन्द्रेण तत्सर्वं श्रेष्ठिने ज्ञापितम् । तदा श्रेष्ठिनोक्तम्- 'वत्स! एते तपोधनाः पञ्चशतपरिमिता : | एषां मध्ये केsपि वृद्धाः केऽपि उग्रतपस्विनः केऽपि बहुश्रुताः केऽपि प्रतिमाधारिणः केऽपि जरया जर्जरितदेहाः, केऽपि विविधाऽभिग्रहवन्तः केऽपि विविधागमाऽभ्यासतत्पराः केचिच्च ग्लानत्वेऽपि निष्प्रतिकर्मशरीरा भविष्यन्ति । एषां भक्त्या प्रतिलाभिते महत्पुण्यं भविष्यति । यतः
""पहसन्त - गिलाणेसुं, आगमगाहीसु तह य कयलोए । उत्तरपारणगम्मि य, दिन्नं बहुफलं होई" ॥१॥
अतः कारणाद् हे वत्स! साधुभ्यः षोडश मोदकान् देहि । साधवो बहवः सन्ति, अतश्चतुष्पञ्चसाधु योग्यम् आहारं देहि । आत्मीयगृहयोग्यं दानं दातव्यम्” । ततो लक्ष्मीचन्द्र 'ओम्' दत्युक्त्वाऽधो गत्वा व्यचिन्तयत्'पित्रा तु षोडशमोदकाज्ञा दत्ता, साधवस्तु बहतः सन्ति । मद्विवाहार्थम् अनेकसहस्रसङ्ख्यया मोदकाः कारिताः सन्ति तास्तं अविरतयो मिथ्यात्विनश्च संसारिणो जीवा भक्षयिष्यन्ति । एते तु निःसपृहास्तपस्विनो रत्नपात्रकल्पाः, परमपुण्योदयेन एपां योगो मिलति । साधव आहारं कृत्वा स्वाध्याय- ध्यान तो जपादिषु प्रवर्त्स्यन्ते, संसारिणस्तु स्निग्धं भुक्त्वा विशेषतो विषयादिषु प्रवर्त्स्यन्ते, अतो मद्विवाहार्थं कृता मोदकाः साधुभ्यो | मया दीयमाना इय परत्र च ममातीवलाभदायिनो भविष्यन्ति, भक्त्या मयाऽधिकैर्दीयमानैमैमैव लाभो भविष्यति । १. पथश्रान्तन्ग्लानेषु आगम गाहिषु तथा च कृतलोचे । उत्तरपारण के च, दत्रं बहुफलं भवति ||१||
For Personal & Private Use Only
नवमः
पल्लव:
॥॥ ४३६ ॥
www.jainelibrary.org