________________
श्रीधन्य
चरित्रम्
॥ ४३५॥
श्रेष्ठिना विक्रीते वसन्तपुरप्राप्तव्यलाभादपि अधिकलाभः प्राप्तः । श्रेष्ठिनस्तु लाभ- यशो-धर्मास्त्रयोऽपि वृद्धिं प्राप्ताः । लोकाः प्रशंसां कुर्वन्ति- 'धन्य एषः, यादृशी धर्मऽस्य दृढता तादृशी गृहस्थितस्यापि धनवृद्धिर्जाता' । अथ तेन धनेन प्रचुरं व्यापारं कर्तुं लग्नः तत्रापि पुण्य बलेन शनैः शनैर्लक्ष्मीवृद्धि प्राप्ता । महेभ्यो जातः । सर्वत्र ख्यातिमान् जातः ।
अथ तस्य कियत्यपि काले पुत्रो जातः तस्य 'लक्ष्मीचन्द्र' इति नाम दत्तम् । क्रमेण प्रवर्धमानः पठनाय स्थापितः । | स्तोकेनैव कालेन समस्ता अपि कला अधीताः । पितुः सङ्गत्या धर्मक्रियायां कुशलो रुचिमांश्व संजातः । क्रमेण यौवनं प्राप्तः । व्यापारकर्मणि निपुणत्वाद् लोके आदेयवाक् संजातः । ततः श्रेष्ठी तस्य प्राप्तवयस्कं नैपुण्यं च दृष्ट्वा श्रेष्ठिपुत्र्या सह विवाहमेलनं कृत्वा विवाहसामग्रीं कर्तुं लग्नः । ज्ञाति स्वजन-परिचितजनभोजनार्थं मोदकादीन् प्रचुरान् विविधप्रकारान् कारयित्वाऽग्रतो गृहाऽपवरकाणि भृतानि । अथाऽन्यदिने श्रेष्ठी जिनपूजाप्रवृत्तिं करोति तावता मध्याह्नसमये श्रेष्ठिनो गृहे कश्चित् साधुसंघाटक एषंणीयाहारगवेषणार्थमागतः । देवगृहस्थितेन श्रेष्ठिना 'धर्मलाभ' इति शब्दे श्रूयमाणे प्रोक्तम्- 'गृहमध्ये कोऽपि दाता वर्तते ?' | | तदाऽधः स्थितेन लक्ष्मीचन्द्रेणोक्तम्- 'तात! अहमेवाऽस्मि' । तदा श्रेष्ठिना प्रोक्तम् अत्रागच्छ' । ततो लक्ष्मीचन्द्रः पितुरभ्यर्णे गतः । पित्रोक्तम्- वत्स ! पृच्छ त्वं के सूरयः समागताः सन्ति?, परिवारश्च कियत्परिमितोऽस्ति ?' । ततो लक्ष्मीचन्द्रेण द्वारिकायामागत्य पित्रोक्तं पृष्टम् । साधुभिरुक्तम्- देवानुप्रिय ! अद्य श्रीधर्मघोषसूरयः पञ्चशतसाधुपरिवृताः समेताः सन्ति वयं तदीयाः शिष्याः, गुर्वाज्ञया एषणीयाहारगवेषणार्थमागताः स्मः ' ।
Jain Education International
For Personal & Private Use Only
नवमः पल्लवः
|| ४३५॥
www.jainelibrary.org