________________
श्रीधन्य
चरित्रम्
॥ ४३४ ॥
न हु होंइ पराहूओ, सेलसीलघडिअपुरिसुत्व" "उत्तमैः सह साङ्गत्यं पण्डितैः सह सङ्कथाम् ।
अलुब्धैः सह मित्रत्वं कुर्वाणो नावसीदति ||१||
अधुना तु या 'पुण्योदय एव बलवत्तरो भवति' इति लोकोक्तिरेव मान्या" । ततः पूर्णे सामायिके पारिते सर्वं सज्जीकृत्य यावच्चलनाय प्रवर्तते तावता बुम्बारवोऽभवत् । यावच्च कियद् अग्रे चचाल तावताऽग्रे गतान् सार्थजनान् वस्त्ररहितान् दिगम्बरप्रायान् धावमानान् आगच्छतो ददर्श । तान् दृष्ट्वा विस्मितेन श्रेष्ठिना पृष्टम्‘कथम् ईदृश्यवस्था भवताम् ?' । तेऽप्यूचुः - 'धन्यस्त्वम्, धन्यस्तव धर्मः धन्या तवाऽऽस्था । यादृशां तव धर्मे स्थिरत्वं तादृशं पुण्यं फलितं प्रत्यक्षमेव दृष्टम् । वयमुत्सुका भूत्वाऽग्रे चलिताः, गव्यूतार्धमात्रं गतास्ताव कुञ्चगहनाद् घाटी उत्थिताः तैर्घाटीचोरैः ईदृशीकृत्य मुक्ताः । सर्वेऽपि मुषिताः, न कोऽप्युद्गरित:' । तछ्रुत्वा श्रेष्ठिना तेभ्यो वस्त्रादीनि दत्तानि, यशोवृद्धिर्जाता । ततः श्रेष्ठिना चिन्तितम् अधुनाऽग्रे गमनं न युक्तम्, पुण्येनोद्गरितोऽस्मि, सर्वत्र पुण्यबलं प्रभवति । चेत् पुण्यबलमस्ति तदा गृहस्थितस्यैव लाभो भविष्यति । अधुना च अद्यप्रभृति शकटादिना देशान्तरगमनेन खरकर्मव्यापारो न कर्तव्यः, यतः शास्त्रे महत्प्रायश्चित्तमुक्तम् । अतोऽस्य व्यापारस्य मम यावज्जीवं नियमः' । एवं नियमं कृत्वा पश्चाद्वलित्वा गृहमागतः । तावताऽस्य पुण्यबलेन तस्मात् काञ्चनपुराद् यद् वसन्तपुरविक्रयणयोग्यं क्रयाणकं गृहीतमस्ति तत् तत्रैव काञ्चनपुरे महार्घं जातम् ।
Jain Education International
For Personal & Private Use Only
नवमः पल्लव:
॥ ४३४ ॥
www.jainelibrary.org