SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ नवमः पल्लवः विज्ञप्तः - श्रेष्ठिन् ! ग्रीष्मकालोऽस्ति, दिवसे चटिते हि आतपे दुःखिनो भविष्यामः, तेन शीतसमये पथलङ्घनं श्रीधन्यवरम् । तदा सार्थपेन सेवकेभ्य आदिष्टम्-'शीघ्रं सार्थो मार्गे वहमानः क्रियताम् । तदा सेवकैः पूत्कृतम्-'भोः चरित्रम् सार्थलोकाः! सार्थश्वलति, सर्वैरपि उत्थीयताम् । ततः सर्वेऽपि स्वस्वशकटान् योजयन्ति स्म । तदा | लक्ष्मीसागरेण स्वनियमज्ञापनाय तेषां विलम्बनाय च द्वि-त्रिवारं हुं हुं कृतं, क्षुतश्य कृतः, तथापि तेषु अतिष्ठत्सु तेन वचनेनोक्तम्-'भो भो अमुक अमुक ! मम सामायिकमस्ति' । इति श्रुत्वा स्वार्थप्रिया लोकाः केचिद् ऊचुः दृश्यतां श्रेष्ठिनो निपुणत्वम् , कीदृशीयं सामायिकवेला गृहीता ? | प्रयाणं दूरतोस्ति, अरुणोदये आतपः शीघ्र ॥४३३॥ भविष्यति, लोका बलीवाश्च आतपेन पीडयिष्यन्ते, ते पशवः क्षुधिता भारं वहन्त उत्तारके प्राप्ते आहारं प्राप्स्यन्ति; अयं तु धर्मरसिकत्वविज्ञापनाय सामायिकं लात्वा स्थितः' इति वदन्तःशकटनानि नियन्त्र्य चलितुं लग्नाः । केऽपि मुखदाक्षिण्याद् 'भोः श्रेष्ठिन् ! न वयं गच्छामः, परन्तु शकटानि योजयित्वा मार्गपतितानि कृत्वा स्थिताः स्मः सत्वरमागन्तव्यं न विलम्ब: करणीयः' इति वदन्तोऽये चलिताः । केचित्तु 'वयमये गत्वा सार्थं स्खलयामः इति वदन्तो गताः। एवं विविधमिषेण सर्वेऽपि गताः। श्रेष्ठिन: स्वकीयशकट-बलीवदय एव स्थिताः नाऽन्यः कोऽपि । तदा श्रेष्ठिना चिन्तितम्-“धिगेषां पापमन्त्रिणां मित्रत्वम्, सर्वेऽपि स्वार्थेकनिष्ठा जाताः । वरोऽस्माकं धर्म एव सहायकः, स तु कुत्रापि न गतः । ईदृशैः सह मैत्री न कर्तव्या । यतः "सो चिय मित्तो किज्जई, जो किर पत्तम्मि वसणसमयम्मि। १. तदेव मित्रं क्रियते, यत् कित्न प्राप्ते व्यसनसमये। न खलु भवति पराभूतं, शेलशीलाघटितपुरुष इव||१|| ॥४३३॥ Jain Education in For Personal & Private Use Only R w .jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy