________________
श्रीधन्य
चरित्रम्
नवमः पल्लव:
॥४३२॥
परकीयमस्ति । सोऽपि दानरुचिरस्ति, 'दत्तम्' इति श्रुते हृष्टो भविष्यति, अतो यदि भवतां कल्पते तदा सुखेन गृह्यताम्" | तदा जितेन्द्रियाः साधवो वदन्ति- 'नेदम् अस्माकं कल्पनीयम्' । तदा स वक्ति - 'भवद्भ्योऽदत्त्वाऽहं कथं भोजनं करिष्यामि ? | यतस्तस्मिन् समागते आग्रहेण मां प्रति दास्यति , तं च निषेद्धम् अशक्तोऽहं, तदा का व्यवस्था ?'| तदा साधवो वदन्ति-'तव मुत्कलं यथारुचि' ।ततः स तद्भुङ्क्ते कदाचिच्च 'अमुको ददाति तदाऽहं किं ततोऽपि हीनः?' इत्यभिमान-मात्सर्येण परस्येयल् करोति । यद्वा-अनीप्सिता: साधवः समागताः , यद्वस्तुयाच नाय साधवो निर्गतास्तद्वस्तु तेषां मुखाग्रे एव पतितमस्ति, दृष्टं वस्तु याचिष्यन्ति तदा कथं दत्तं विना छुट्येत ?|अतो दृष्टौ पातनं न वरम् । साधवस्तु दृष्टमेव याचन्ते, नाऽदृष्टम् । एवं स कदा कदा कृपणतादोषेण मात्यर्सेण च सातिचारं संविभागं करोति । ईदृशं धर्मं निर्वहतस्तस्य दिवसा यान्ति | __ अयाऽन्यदा तस्मात् पुरतः कोऽपि सार्थो वसन्तपुरं प्रति गन्तुकाम अद्यतोऽभूत् । सर्वे जनाः पन्थसामग्री कर्तुं लग्नाः। तदा वसुदेवनाम्ना सुहृदा लक्ष्मीसागरं प्रति प्रोक्तम्-'भज्ञो मित्र! अहं वसन्तपुरं गन्तुकामोऽस्मि, तेन त्वमपि सज्जीभव वसन्तपुरगमनाय' । लक्ष्मीसागरेणोक्तम् अहं करिष्यामि | यत् त्वत्तो भवेत् तत् किञ्चित्कर्तव्यम्, अन्यत् सर्वम् अहं मेलयिष्यामि, | इति मित्रेणोत्साहितः सोऽपि सज्जोऽभूत् तावता सार्थेशश्वलितः । पृष्ठतस्तावति भृतशकट-बलीवादिकौ चलितौ । क्वापि सतृण-जलप्रदेशे रात्रौ सार्थलोकाः स्थिताः लक्ष्मीसागरोऽपि भव्यस्थले समुत्तीर्णः । यथावसरे सुप्तः । पाश्यात्यरात्रौ पुनरुत्थितः निद्रां विहाय सामायिकं च लात्वा परमेष्ठिस्मरणं करोति । तावता स्तोकरात्रिसमयं ज्ञात्वा ये पादविहारिणस्तैः सार्थेशो
Main Education n
atin
For Personal & Private Use Only
W
w.jainelibrary.org