SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम ॥ ४३१ ॥ सफलो भविष्यति' । तदा धनवत्या गुरुवचनमङ्गीकृत्य मर्कटी स्वनिष्ठया रक्षिता । अथ पुना राज्ञोक्तम्'स्वामिन् ! षोडशैव धनकोटयो धर्मदत्तस्य मिलिताः, नाऽधिकाः, तासां हार्दं भवतो चयमानं | मर्कटीनर्तनान्तर्वार्तया स्थगितं तद् अधुना प्रसादीक्रियताम्' । तदा गुरुः प्राह “श्रूयतां तर्हि दत्तावधानेन|| धर्मदत्तस्य चन्द्रधवलस्य च पूर्वभववृत्तान्तः ॥ कलिङ्गदेशे काञ्चनपुरं नगरम् । तत्र लक्ष्मीसागरो नाम व्यवहारी । तस्य लक्ष्मीवती प्रिया । तस्य गृहे | लक्ष्मीर्नास्ति, तथापि परम्परया जिनधर्मवासितकुलत्वाद् भक्त्या सर्वज्ञोक्तं धर्मं करोति । एवं तस्य भार्याऽपि इष्टधर्माऽस्ति । श्रेष्ठी उभयसन्ध्यायां प्रतिक्रमणं करोति, पुनर्यथाऽवसरे सामायिकमपि करोति । पर्वसु पौषधं करोति, पारणके संविभागमपि करोति, व्रतं च न मुञ्चति । एवं धर्मं करोति । पर संविभागव्रतम् अन्तरान्तरा सातिचारं करोति- कदाचित् शर्करादिकं वस्तु सचित्तवस्तूपरिस्थितमपि 'इदं निर्दोषम्' इति कृत्वा साधु | ददाति । कदाचिच्च दातुमनिच्छुः अचित्तमपि कौटिल्येन सचित्तवस्तूपरि स्थापयति' । कदाचित् कालाऽतिक्रमे निमन्त्रयति यदा गोचर्यां गताः साधवः स्वनिर्वाहयोग्यम् आहारं लब्ध्वा परावृत्य उपाश्रयं प्रति चलन्ति तदा गृहाद् बहिरागत्य तारस्वरेण बहुमानपूर्वकं विविधप्रवृत्त्या निमन्त्रयति । तच्छ्रुत्वा लोका जानन्ति - 'अहो ! अस्य दानरुचिः साधवस्तु निर्वाहमात्रे लब्धेऽधिकं न गृह्णन्ति, निःस्पृहत्वात्' । कदाचिच्च साधून् आहार करणानन्तरं निमन्त्रयतिः । कदाचिच्च आदातुमना वक्ति " इदं आहार्यं वस्तु शुद्धमस्ति, परं Jain Education International For Personal & Private Use Only नवमः पल्लवः ॥ ४३१ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy