Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 450
________________ श्रीधन्य नवमः पल्लवः चरित्रम ॥४४१॥ तथा भवितव्यतायोगतः, कारणपरिपाकयोगतः, बहुलभोगकर्मोदयतः, बाधककर्माऽल्पतो वा एवं संजातम् । एष एककपदी मार्गः कादाचित्कः न तु राजपथः। यत् सिद्धानाम् आनन्त्यं तत् कालबाहुल्यात् कोऽपि मूर्ख ईदृशं ज्ञातं साध्ये कृत्वा गृहस्थधर्मे रतो मोक्षं समीहते न तस्येप्सितसिद्धिर्भवति । अस्मादृशानां बहुलकर्मस्थितिसत्ताकानां, गुरुकृपया विज्ञातसंसारस्वरूपाणां, जन्म-जरा-मरण-रोगशोकाद्यवश्यप्राप्ततया उल्लसितवैराग्याणां शीघ्रचारित्रादरणमेव श्रेयः, विलम्बकरणं महामूर्खत्वम्, यतो धर्मस्य त्वरिता गतिः । संसारे श्रेयांसि बहुविघ्नानि | कदाचिद् विलम्बकरणे अध्यवसायादिनिमित्तयोगत आयुरपवर्तनकरणबलेन मरणं संजायेत तदा कल्पितो विकल्पो निष्फल:| गत्यन्तरंगतो जीवः पूर्वभवाचीर्ण' संयम-तपः-श्रुतादि न किञ्चिदपि जानाति, यस्मिन् कुले समुत्पन्नस्तदेव श्रद्दधाति, नान्यत् । कस्यचित्तु सुमङ्गलाचार्या-5ऽर्द्रकुमारयोरिव कथञ्चित् पूर्वनिबद्धप्रबलाराधकपुण्योदयतः कस्यापि साहाय्यं मिलति तदा तु स पुनः स्मरति, परं नात्मीयस्वभावेन । हस्ताद् गतं पुनरपि प्रापणं दुष्करम् । यत् त्वयोक्तम्परोपकारसन्निभोऽन्यो धर्मो नास्ति' तत् सत्यम्; परं प्रथमम् आत्मानं तारयन् अन्यानपि तारयति, एतच्च साधकलक्षणं जिनाज्ञा च ज्ञेया | परन्तु आत्मानं संसारपथे वहन्तं कृत्वाऽन्यसयोपकारकरणे किं दक्षत्वम् ? | यथा गृहशिशुषु क्षुधितेषु चतुष्पथे सत्रस्य स्थापनं व्यर्थम्, तच्च मूर्खत्वं सूचयति । अहं तु न मूर्खः, अतो यद्भावि ___१.श्रीमद्विजय भुवनचन्द्र सूरीश्वर जैन ज्ञान मन्दिर संस्थया वीर संवत्सरे२५०१ तमे प्रकाशित संस्करणे 'आचीर्णंज्ञति प्रयोगः प्राप्यते स तुन शुद्धः, शुद्धस्तु आचरितम्' इति। -सम्पादकः। ॥४४१॥ Main Education For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496